प्रधामंत्री मोदी अददात् मुख्यमंत्रिणे योगिने जन्मदिनस्य वर्धापनानि, शुभकामनानाम्अबाधक्रमः
लखनऊ, 05 जूनमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य जन्मदिवसावसरे प्रधानमन्त्रिणा नरेन्द्रमोदिना, रक्षामन्त्रिणा राजनाथसिंहेन, गृहमन्त्रिणा अमितशाहेन सह देशस्य विभिन्ननेतृभिः तस्मै शुभकामनाः प्रदत्ताः। प्रधानमन्त्री नरेन्द्
मुख्यमंत्री योगी


लखनऊ, 05 जूनमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य जन्मदिवसावसरे प्रधानमन्त्रिणा नरेन्द्रमोदिना, रक्षामन्त्रिणा राजनाथसिंहेन, गृहमन्त्रिणा अमितशाहेन सह देशस्य विभिन्ननेतृभिः तस्मै शुभकामनाः प्रदत्ताः।

प्रधानमन्त्री नरेन्द्रमोदी एक्स इति सामाजिकमाध्यमे लिखितवान् यत् उत्तरप्रदेशस्य मुख्यमन्त्रिणे योगिनः आदित्यनाथाय जन्मदिवसस्य शुभकामनाः। राज्यस्य प्रगत्यर्थं तेन कृतं कार्यम् उल्लेखनीयम् अस्ति। मुख्यमन्त्री योगी सर्वदा सामान्यजनानां जीवनस्य उन्नत्यर्थं कार्यं कृतवान्। प्रधानमन्त्री उक्तवान् यत् अहं तस्य दीर्घस्य स्वस्थस्य च जीवनस्य कामनां करोमि।

रक्षामन्त्री राजनाथसिंहः एक्स इति सामाजिकमाध्यमे उक्तवान् यत् उत्तरप्रदेशस्य लोकप्रियाय कर्मठाय च मुख्यमन्त्रिणे योगी आदित्यनाथाय जन्मदिवसस्य हार्दिकाः शुभकामनाः। तस्य नेतृत्वे उत्तरप्रदेशः सुशासनस्य सुरक्षायाः विकासस्य जनकल्याणस्य च क्षेत्रेषु उल्लेखनीयाः उपलब्धीः प्राप्तवान्। तस्य दृढसङ्कल्पस्य अथकपरिश्रमस्य च परिणामस्वरूपम् अद्य उत्तरप्रदेशः प्रगतेः समृद्धेश्च मार्गे तीव्रगत्या अग्रसरति। ईश्वरात् प्रार्थना अस्ति यत् तस्मै उत्तमस्वास्थ्यं दीर्घायुः जनसेवार्थं निरन्तरां ऊर्जां शक्तिं च प्रददातु।

केन्द्रीयगृहसहकारितामन्त्री अमितशाहः उक्तवान् यत् उत्तरप्रदेशस्य मुख्यमन्त्रिणे योगी आदित्यनाथाय जन्मदिवसस्य हार्दिकाः शुभकामनाः। प्रधानमन्त्री मोदीस्य नेतृत्वे प्रदेशस्य द्वियन्त्रसर्वकारः सुशासनस्य जनकल्याणस्य च नूतनमानदण्डान् स्थापयति। ईश्वरात् तव उत्तमस्वास्थ्यस्य दीर्घायुषश्च कामनां करोमि।

भारतीयजनतापक्षस्य राष्ट्रीयाध्यक्षः नितिन नवीन, उत्तरप्रदेशभाजपाध्यक्षः पङ्कज चौधरी, उपमुख्यमन्त्री केशवप्रसादमौर्यः, ब्रजेश पाठकः, भाजपायाः प्रदेशमहामन्त्री सङ्गठनस्य धर्मपालसिंहः तथा उत्तरप्रदेशसर्वकारस्य मन्त्रिणः, प्रदेशस्य देशस्य च अन्ये नेतारः एक्स इति सामाजिकमाध्यमे सन्देशान् प्रकाशित्य मुख्यमन्त्रिणे योगिने जन्मदिवसस्य शुभकामनाः प्रदत्तवन्तः तथा तस्य दीर्घायुषः कामनाम् अकुर्वन्।

उल्लेखनीयं यत् पञ्चमे जूनमासस्य दिने १९७२ तमे वर्षे उत्तराखण्डस्य पौडीगढवालजनपदे जातः मुख्यमन्त्री योगी आदित्यनाथः स्वजन्मदिवसे किमपि आयोजनं न करोति। सः कर्मयोगिवत् स्वदायित्वानि निर्वहन् दृश्यते। तथापि तस्य समर्थकाः धार्मिकानुष्ठानानि कृत्वा तस्य दीर्घायुषः कामनां कुर्वन्ति। राजधानी लखनऊनगरात् आरभ्य गोरखपुरनगरं यावत् अन्येषु जनपदेषु च केषुचित् स्थानेषु वृक्षारोपणं कृतम्, अन्येषु स्थानेषु भण्डारकार्यक्रमस्य आयोजनम् अभवत्।