यदि पर्यावरणं रक्षिष्यते तर्हि प्रकृतिः रक्षिष्यते तदैव जीव सृष्टिरपि रक्षिष्यते : मुख्यमंत्री याेगी
-आम्रस्य पादपं रोपयित्वा मुख्यमंत्री सर्वेभ्यो दत्ता विश्व पर्यावरण दिवसस्य शुभकामना लखनऊ, 05 जूनमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः विश्वपर्यावरणदिवसस्य अवसरे शुक्रवासरे स्वकीयशासकीयनिवासे एकः वृक्षः मातुः नाम्ना इति अभिय
योगी


पौधरोपण करते मुख्यमंत्री


-आम्रस्य पादपं रोपयित्वा मुख्यमंत्री सर्वेभ्यो दत्ता विश्व पर्यावरण दिवसस्य शुभकामना

लखनऊ, 05 जूनमासः (हि.स.)।

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः विश्वपर्यावरणदिवसस्य अवसरे शुक्रवासरे स्वकीयशासकीयनिवासे एकः वृक्षः मातुः नाम्ना इति अभियानस्य अन्तर्गतं आम्रवृक्षस्य रोपणं कृत्वा सर्वेभ्यः विश्वपर्यावरणदिवसस्य शुभकामनाः प्रदत्तवान्। तेन उक्तं यत् यदि पर्यावरणं रक्ष्यते तर्हि प्रकृतिः रक्ष्यते, यदि प्रकृतिः रक्ष्यते तर्हि जीवसृष्टिरपि रक्ष्यते। अतः प्रत्येकेन नागरिकेन मातृभूमेः प्रति निष्ठया स्वकर्तव्यानि निर्वहणीयानि।

कार्यक्रमं सम्बोधयन् मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्रिणः प्रेरणया प्रदेशसर्वकारेण पर्यावरणस्य प्रकृतेश्च प्रति स्वउत्तरदायित्वानां निर्वहणार्थं नववर्षेषु अनेके महत्त्वपूर्णाः पदक्षेपाः गृहीताः। द्विसहस्रसप्तदशतमे वर्षे शासनभारग्रहणानन्तरं द्वियन्त्रसर्वकारेण वनमहोत्सवस्य अवसरे पञ्चकोटिवृक्षारोपणकार्यक्रमः स्वहस्ते गृहीतः। तस्मिन् समये अस्माकं समक्षे अनेकाः चुनौत्यः आसन्। न पर्याप्ताः वृक्षशालाः आसन्, न च एतादृशस्य विशालकार्यक्रमस्य सञ्चालनार्थम् अनुभवः आसीत्। तथापि वनविभागेन अन्यैश्च विभागैः अस्य लक्ष्यस्य प्राप्त्यर्थम् उल्लेखनीयम् कार्यं कृतम्।

नववर्षेषु प्रदेशे द्विचत्वारिंशदधिकद्विशतकोटिवृक्षाणां रोपणम्

मुख्यमन्त्री योगी उक्तवान् यत् नववर्षाणां मध्ये प्रदेशे द्विचत्वारिंशदधिकद्विशतकोटिवृक्षाणां रोपणं कृतम्। अनेन प्रदेशस्य वनावरणमपि वर्धितम्। प्रधानमन्त्री मोदी प्रकृतेः मातृभूमेश्च प्रति स्वकर्तव्यपालनरूपेण कृतज्ञतां प्रदर्शयन् त्रिवर्षपूर्वम् एकः वृक्षः मातुः नाम्ना इति अभियानस्य शुभारम्भम् अकरोत्। अस्य अभियानस्य अन्तर्गतं अद्य वृक्षारोपणमहाभियानस्य प्रारम्भः भवति।

योगी प्रभुश्रीरामस्य उद्घोषस्य जननी जन्मभूमिश्च स्वर्गादपि गरीयसी इत्यस्य उल्लेखं कृत्वा उक्तवान् यत् जनन्याः जन्मभूमेश्च प्रति कृतज्ञता प्रत्येकस्य नागरिकस्य कर्तव्यम् अस्ति। पर्यावरणसंरक्षणं मातृभूमेः प्रति सर्वोच्चकर्तव्येषु अन्यतमम् अस्ति। प्रदेशसर्वकारः पर्यावरणसंरक्षणार्थम् एकतः व्यापकवृक्षारोपणकार्यक्रमं सञ्चालयति, अपरतः वैश्विकतापनस्य, जलवायुपरिवर्तनस्य, ऋतुचक्रपरिवर्तनस्य च पर्यावरणीयपरिस्थितीः निराकर्तुमपि अनेके पदक्षेपाः गृहीताः सन्ति।

सर्वकारस्य प्रयत्नः अस्ति यत् ग्रामाः, नगराणि, जनपदाः तथा सम्पूर्णः प्रदेशः प्लास्टिकमुक्तः भवेत्। एकवारप्रयोगयोग्यप्लास्टिकस्य निरुत्साहनं कृत्वा तस्य स्थाने मृन्मयपात्राणां प्रोत्साहनं कृतम्। राज्यसर्वकारेण एतदर्थं माटीकलामण्डलस्य स्थापनायाः उपरि बलं दत्तम्। अप्रैलमासात् जूनमासपर्यन्तं ग्रामेषु नगरेषु च स्थितेषु तडागेषु प्रजापतिसमाजस्य कुम्भकारसमाजस्य च जनानां कृते निःशुल्कमृत्तिकाप्रदानस्य व्यवस्था कृता। तेषां कृते हस्तचालितचक्रैः सह सौर-ऊर्जया विद्युत् शक्त्या च चालितचक्राण्यपि उपलब्धानि कृतानि।

मुख्यमन्त्री उक्तवान् यत् जलसंरक्षणार्थमपि प्रदेशे अनेके पदक्षेपाः गृहीताः तथा अनेके आदर्शाः प्रस्तुताः। विकासप्राधिकरणेन आवासीयभवनेषु वाणिज्यिकपरिसरेषु च वर्षाजलसञ्चयनव्यवस्था अनिवार्या कृता अस्ति। मुख्यमन्त्री एकः वृक्षः मातुः नाम्ना इति अभियानस्य अन्तर्गतं सर्वान् जनान् वृक्षारोपणाय तेषां संरक्षणाय च आहूतवान्।

अस्मिन् अवसरे प्रदेशसर्वकारस्य मन्त्रिणः डॉ. अरुणकुमारसक्सेना, केपी मलिक, बलदेवसिंहऔलख, दानिश आजाद अन्सारी, अपरमुख्यसचिवः गृहविभागस्य संजयप्रसादः, प्रमुखसचिवः वनविभागस्य वी हेकाली झिमोमी, प्रधानमुख्यवनसंरक्षकः विभागाध्यक्षश्च सुनीलचौधरी इत्यादयः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani