विश्व पर्यावरण दिवसः- नागरिक सुरक्षा विभागः पादपान् राेपयित्वा दत्तः पर्यावरण संरक्षणस्य संदेशः
प्रयागराजः, 05 जूनमासः (हि.स.)। विश्वपर्यावरणदिवसस्य अवसरे एकः वृक्षः मातुः नाम्ना इति अभियानस्य अन्तर्गतं प्रयागराजे शुक्रवासरे नागरिकसुरक्षाविभागेन वृक्षारोपणकार्यक्रमस्य आयोजनम् अभवत्। नोडलप्रमुखसचिवस्य सहकारिताविभागस्य उत्तरप्रदेशशासनस्य तथा
शहीद चन्द्रशेखर आजाद पार्क में पौधारोपण का छाया चित्र


प्रयागराजः, 05 जूनमासः (हि.स.)।

विश्वपर्यावरणदिवसस्य अवसरे एकः वृक्षः मातुः नाम्ना इति अभियानस्य अन्तर्गतं प्रयागराजे शुक्रवासरे नागरिकसुरक्षाविभागेन वृक्षारोपणकार्यक्रमस्य आयोजनम् अभवत्। नोडलप्रमुखसचिवस्य सहकारिताविभागस्य उत्तरप्रदेशशासनस्य तथा जिलाधिकारी मनीषकुमारवर्मणः मार्गदर्शने आयोजिते अस्मिन् कार्यक्रमे अधिकारिणः, कर्मचारीणः, नागरिकसुरक्षाविभागस्य वार्डनाः तथा स्वयंसेवकाः वृक्षारोपणं कृत्वा पर्यावरणसंरक्षणस्य सन्देशं प्रसारितवन्तः।

शुक्रवासरे जनजागरूकतायाः प्रतीकभूते शहीदचन्द्रशेखरआजादोद्याने आयोजिते कार्यक्रमे जिलाधिकारी मनीषकुमारवर्मा सहिताः प्रशासनिकाधिकारिणः समाजसेविनश्च जनान् पर्यावरणसंरक्षणस्य प्रति जागरूकान् कर्तुं वृक्षारोपणं कृतवन्तः। कार्यक्रमस्य समये उपस्थितैः सर्वैः जनैः अधिकाधिकवृक्षारोपणस्य, तेषां संरक्षणस्य उत्तरदायित्वनिर्वहनस्य तथा भाविपीढीनां कृते स्वच्छसुरक्षितहरितपर्यावरणप्रदानस्य सङ्कल्पः गृहीतः।

अस्मिन् अवसरे वक्तारः उक्तवन्तः यत् पर्यावरणसन्तुलनस्य परिपालनार्थं वृक्षारोपणम् अत्यन्तम् आवश्यकम् अस्ति। वर्धमानप्रदूषणस्य जलवायुपरिवर्तनस्य च परिस्थितीः निवारयितुं प्रत्येकेन नागरिकेन वृक्षारोपणाभियाने सहभागी भवितव्यम्। एकः वृक्षः मातुः नाम्ना इति अभियानं न केवलं पर्यावरणसंरक्षणस्य सन्देशं ददाति, अपितु प्रकृतेः मातृत्वस्य च प्रति सम्मानभावनामपि दृढयति।

कार्यक्रमे नागरिकसुरक्षाविभागस्य अधिकारिणः, कर्मचारीणः, वार्डनाः, स्वयंसेवकाः तथा समाजसेवीसङ्गठनानां प्रतिनिधयः सक्रियसहभागितां कृतवन्तः। सर्वैः हरितप्रयागराजस्य स्वच्छपर्यावरणस्य च सङ्कल्पः अग्रे नेतुं तथा जनसामान्यान् अपि अधिकाधिकवृक्षारोपणाय प्रेरयितुं प्रतिज्ञा कृता।

वृक्षारोपणकार्यक्रमस्य माध्यमेन पर्यावरणसंरक्षणस्य, हरितविकासस्य, जनभागीदारीयाः च सन्देशः प्रसारितः तथा जनाः प्रकृतेः प्रति स्वकर्तव्यपालनाय प्रेरिताः।

---------------