Enter your Email Address to subscribe to our newsletters

वाराणसी, 05 जूनमासः (हि. स.)।
वाराणस्यां जनप्रतिनिधिभिः एकः वृक्षः मातुः नाम्ना इति कार्यक्रमस्य अन्तर्गतं विश्वपर्यावरणदिवसावसरे विभिन्नस्थानेषु वृक्षारोपणं कृतम्। विश्वपर्यावरणदिवसस्य अवसरे रोहनियाविधानसभाक्षेत्रस्य अमराखैराग्रामे राज्य मन्त्री हंसराज विश्वकर्मा एकः वृक्षः मातुः नाम्ना इति कार्यक्रमस्य अन्तर्गतं वृक्षारोपणं कृतवान्। राज्यमन्त्री हंसराजः उक्तवान् यत् पर्यावरणस्य संरक्षणार्थं लघुवृक्षाणां रोपणेन भविष्ये हरितसमाजस्य निर्माणं कर्तुं सर्वैः मातुः नाम्ना एकः वृक्षः रोपणीयः।
दक्षिणीविधानसभाक्षेत्रे विधायकः डॉ. नीलकण्ठ तिवारी वृक्षारोपणं कृत्वा सर्वेभ्यः पर्यावरणदिवसस्य शुभकामनाः प्रदत्तवान्। तेन उक्तं यत् आगच्छामः, वयं सर्वे वृक्षान् रोपयाम। वृक्षः रक्षितः सन् रक्षति, अतः वृक्षस्य संरक्षणं करणीयम्। एकः एव वृक्षः पर्यावरणसंरक्षणार्थं महत्त्वपूर्णः अस्ति। प्रत्येकेन जननेन स्वदायित्वं ज्ञात्वा अवश्यम् एकः वृक्षः रोपणीयः।
एकः वृक्षः मातुः नाम्ना इति कार्यक्रमे विधायकैः वृक्षारोपणं कृतम्। तथा च कैण्टविधानसभाक्षेत्रे विधायकः सौरभ श्रीवास्तवः अपि एकं वृक्षं रोपितवान्। स्वतन्त्रप्रभारयुक्तः राज्यमन्त्री रविन्द्र जायसवालः, विधानपरिषद्सदस्यः धर्मेन्द्रसिंहः च अपि वृक्षारोपणं कृत्वा समाजस्य प्रति आह्वानं कृतवन्तौ यत् सर्वैः अवश्यम् एकैकः वृक्षः रोपणीयः।
---------------
Hindusthan Samachar / Dheeraj Maithani