Enter your Email Address to subscribe to our newsletters

—धर्म नगर्यां काश्यां मुख्यमंत्रिणः के समर्थकेषु उत्साहो,हवनं पूजनञ्च
वाराणसी,05 जूनमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य चतुःपञ्चाशत्तमजन्मदिवसावसरे शुक्रवासरे धर्मनगऱ्यां काश्यां तस्य समर्थकेषु हिन्दूयुववाहिन्याः कार्यकर्तृषु च विशेषः उत्साहः दृश्यते। कार्यकर्तारः युवानश्च स्थले स्थले मुख्यमन्त्रिणः दीर्घस्वस्थजीवनस्य कृते हवनपूजनादिकं कुर्वन्ति।
अस्यैव क्रमस्य अन्तर्गतं राजेन्द्रप्रसादघाटे मातृगङ्गा निषादराजसेवासमित्याः तत्त्वावधानेन निषादसमाजस्य युवभिः मातुः गङ्गायाः विधिवत् दुग्धाभिषेकः कृतः तथा मुख्यमन्त्रिणः दीर्घायुषः कामना कृता। अनन्तरं मुख्यमन्त्रिणः चित्राय प्रतीकरूपेण मिष्टान्नं समर्पितम् तथा परस्परं मिष्टान्नवितरणेन जन्मदिवसः आचरितः। अस्मिन् कार्यक्रमे राष्ट्रवादीहिन्दूशक्तिवाहिन्याः प्रदेशाध्यक्षः जितेन्द्रकुमारनिषादः, प्रकाशसाहनी, छोटू, सोनूसाहनी, सन्तोषकुमारः, अमितसाहनी, विवेकनिषादः इत्यादयः सम्मिलिताः आसन्।
तथैव हरहुआस्थे एकपञ्चाशत्फुटोन्नते वरदाञ्जनेयहनुमन्मन्दिरे मुख्यमन्त्रिणः दीर्घायुषः कृते प्रार्थना कृता। मन्दिरे मुख्यमन्त्रिणः योगिनः कृते विशेषहवनपूजनस्य आयोजनम् अभवत्। अस्मिन् अवसरे तस्य समर्थकैः तस्य चतुःपञ्चाशत्तमजन्मदिवसस्य निमित्तं चतुःपञ्चाशत्किलोग्रामपरिमितलड्डूनिर्मितविशेषपिष्टकस्य छेदनं कृत्वा जन्मदिवसः आचरितः। तस्मिन् समये मन्दिरपरिसरे तस्य समर्थकानां विशालसंख्या उपस्थितासीत्।
विप्रसमाजेन योगिनः जन्मदिवसः आचरितः, ब्राह्मणैः मिष्टान्नानि वितरितानि, वेदमन्त्राश्च पठिताः।
प्रदेशस्य मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य चतुःपञ्चाशत्तमजन्मदिवसावसरे शुक्रवासरे काश्यां विप्रसमाजस्य बटुकैः वेदमन्त्रपाठेन तस्मै आशीर्वादः प्रदत्तः। अनन्तरं मिष्टान्नवितरणमपि कृतम्।
कार्यक्रमस्य संयोजकः भाजपानेता विप्रसमाजस्य अध्यक्षश्च डॉ. पवनशुक्लः अस्मिन् अवसरे उक्तवान् यत् हिन्दुत्वस्य पुरोधारूपेण प्रसिद्धः मुख्यमन्त्री योगी आदित्यनाथः गोरक्षपीठस्य महन्तपदात् आरभ्य कुशलराजनीतिज्ञरूपेण विकसितः। गोरक्षपीठस्य दुष्करप्रबन्धनदायित्वं निर्वहन् प्रदेशस्य विकासे बाधकानां दुष्टतत्त्वानां योजनाः बुलडोजरयन्त्रेण ध्वंसिताः तथा विकासमार्गे उपस्थिताः बाधाव्यूहाः भङ्गिताः।
डॉ. पवनशुक्लः उक्तवान् यत् परिवारं त्यक्त्वा संन्यासिनः रूपेण जीवनारम्भात्, गोरक्षपीठस्य उत्तराधिकारित्वं प्राप्त्वा, सांसदपदं धारयित्वा, द्वितीयवारं प्रदेशस्य सफलमुख्यमन्त्रित्वपर्यन्तं तस्य राजनैतिकजीवनयात्रायां बहूनि उत्तरणावतरानि दृष्टानि। कठिनदिनचर्यायाः आक्रामकस्वभावस्य च मध्ये तस्मै कारागारवासोऽपि कर्तव्यः अभवत्, किन्तु सः कदापि विचलितः न अभवत्। सम्पूर्णप्रदेशे संस्कृतविद्यार्थिनां कृते छात्रवृत्तियोजनायाः प्रवर्तनं विप्रसमाजस्य कृते दूरदर्शिपदम् इति तेन अभिहितम्।