Enter your Email Address to subscribe to our newsletters


—हिन्दुयुववाहिनीपरतया सेवा समर्पणयोर्विशेषाभियानम्
वाराणसी,05 जूनमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्रिणः तथा गोरक्षपीठाधीश्वरस्य योगिनः आदित्यनाथस्य चतुःपञ्चाशत्तमजन्मदिवसावसरे शुक्रवासरे काश्याः युवानः उत्साहेन रक्तदानं कृतवन्तः। अस्मिन् अवसरे हिन्दूयुववाहिन्याः पक्षतः सेवा समर्पणयोः विशेषाभियानं सञ्चाल्यते।
मुख्यमन्त्रिणः योगिनः जन्मदिवसावसरे त्रिशक्तिसेवासंस्थया हिन्दूवाहिन्या वाराणस्याः च पक्षतः कबीरचौरास्थिते राजकीयमहिलाचिकित्सालयस्य एमसीएच विभागे स्वैच्छिकरक्तदानशिविरस्य आयोजनम् अभवत्। स्वैच्छिकरक्तदानशिविरे वाहिन्याः वाराणसीमण्डलप्रभारी अम्बरीशसिंह भोलेत्यस्य नेतृत्वे कार्यकर्तारः उत्साहेन रक्तदानं कुर्वन्ति।
अम्बरीशसिंहः उक्तवान् यत् मुख्यमन्त्री योगी आदित्यनाथस्य जन्मदिवसः प्रतिवर्षं सेवाकार्यक्रमैः आचर्यते। अस्मिन् वर्षे मुख्यमन्त्रिणः जन्मदिवसावसरे पञ्चशताधिकरक्तैककसङ्ग्रहस्य लक्ष्यं निर्धारितम् अस्ति। शिविरे समाजस्य विविधवर्गाणां जनाः उत्साहपूर्वकं सहभागित्वं कुर्वन्ति। ते आवश्यकतायुक्तेभ्यः रोगिभ्यः रक्तोपलब्धौ महत्त्वपूर्णं योगदानं ददति।
तेन उक्तं यत् मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य जन्मदिवसः केवलम् एकस्य सङ्गठनस्य विषयः नास्ति, अपितु सम्पूर्णदेशे तस्य समर्थकाः शुभचिन्तकाः च सेवाकार्यक्रमाणां माध्यमेन तम् आचरन्ति। तेन उक्तं यत् रक्तदानशिविरस्य मुख्योद्देश्यं समाजस्य प्रति सेवाभावस्य सुदृढीकरणं तथा आवश्यकतायुक्तानां जनानां साहाय्यकरणम् अस्ति।
Hindusthan Samachar / Dheeraj Maithani