Enter your Email Address to subscribe to our newsletters

नवदेहली, ०५ जूनमासः (हि.स.)। विश्वपर्यावरणदिवसावसरे केन्द्रीयपर्यावरण-वन-जलवायु-परिवर्तनमन्त्री भूपेन्द्रयादवः शुक्रवारदिने उक्तवान् यत् भावीवंशानां हिताय वृक्षाणां परिचर्या तथा संरक्षणाय सामूहिकप्रयत्नाः जनसहभागिता च अत्यावश्यकी अस्ति।
भूपेन्द्रयादवः दिल्लीमुख्यमन्त्री रेखागुप्ता च अद्य संयुक्तरूपेण दिल्ली-मैदानगढ़ी-स्थिते नमो-ऑक्सीजन-उद्याने आयोज्यमाने कार्यक्रमे अष्टादश-नमो-ऑक्सीजन-उद्यानानां उद्घाटनं कृतवन्तौ। अस्मिन् अवसरे उभौ ‘एकं वृक्षं मातृनाम्ना’ इति राष्ट्रव्याप्य-अभियानस्य अन्तर्गतं बहूनां पर्यावरण-सम्बद्धानां प्रयत्नानां शुभारम्भं कृतवन्तौ। एतेषां उद्देश्यं राजधानीनगरे हरितवृद्धिः, वायुगुणवत्तायाः सुधारः तथा पर्यावरणसंरक्षणस्य प्रवर्धनम् अस्ति।
प्रधानमन्त्रिणः ‘एकं वृक्षं मातृनाम्ना’ इति अभियानस्य उल्लेखं कुर्वन् सः अवदत् यत् एतत् वृक्षारोपणं कृतज्ञता-उत्तरदायित्व-पर्यावरणचेतनायाः आधारे जन-आन्दोलनरूपेण परिवर्तितम् अस्ति। सः नागरिकान् न केवलं वृक्षारोपणाय, अपि तु भावीवंशानां हिताय तेषां संरक्षणाय अपि प्रेरितवान्।
मन्त्री उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य नेतृत्वे भारतं पर्यावरणसंरक्षणक्षेत्रे वैश्विकस्तरे अग्रणी राष्ट्रत्वेन उद्भूतम् अस्ति तथा बहवः महत्वपूर्णाः उपलब्धयः प्राप्ताः सन्ति। एतेषु सौर-ऊर्जाक्षमतावृद्धिः, पीएम-सूर्यगृह-योजना, अन्तरराष्ट्रीय-सौरगठबन्धनस्य स्थापना, अन्ताराष्ट्रिय-बिग-कैट-अलायन्स (IBCA) प्रारम्भः, रामसर-आर्द्रभूमिस्थलानां विस्तारः तथा संयुक्तराष्ट्र-जलवायुपरिवर्तन-नमूनायाः अन्तर्गतं समयात् पूर्वं बहूनां एन.डी.सी.-लक्ष्याणां प्राप्तिः अन्तर्भवन्ति।
सः अवदत् यत् दिल्लीवायोः शुद्धिकरणाय राज्यसर्वकारेण गृहीता: उपाया: यथा सतत-उत्सर्जन-निगरानी-प्रणाली (OCEMS), वायु-प्रदूषण-नियन्त्रण-यन्त्राणां (APCD) प्रयोगः, मार्गाणां यान्त्रिक-स्वच्छता तथा विद्युत्-वाहनानि प्रति शीघ्रपरिवर्तनम् प्रमुखानि सन्ति।
रेखा गुप्ता उक्तवती यत् दिल्लीवायुगुणवत्तायाः सुधाराय हरितवृद्धिः अत्यन्तं महत्त्वपूर्णः उपायः अस्ति। सा घोषितवती यत् राज्यसर्वकारः अस्मिन् वर्षे सम्पूर्णनगरे पञ्चदशलक्ष-वृक्षारोपणस्य लक्ष्यं निर्धारितवती अस्ति।
अस्मिन् कार्यक्रमे दिल्लीसर्वकारेण प्रकाशिताः त्रयः पर्यावरणसम्बद्धाः प्रकाशनग्रन्थाः विमोचिताः—एन.सी.टी. दिल्लीकार्ययोजना, असोला-भट्टी-अभयारण्य-प्रबन्धनयोजना तथा दिल्ली-बर्ड-एटलसः, यैः वैज्ञानिकपर्यावरणशासनं सुदृढीकृतम्।
समारोहावसरे सर्वे गणमान्याः ‘एकं वृक्षं मातृनाम्ना’ अभियानस्य अन्तर्गतं वृक्षारोपणं कृतवन्तः तथा ‘धूलमुक्त-दिल्ली’ अभियानस्य अन्तर्गतं स्थानीय-घास-गुल्मजातीनां विशेषप्रदर्शनीम् अवलोकितवन्तः।
तदतिरिक्तं दिल्ली-बर्ड-एटलस-निर्माणे योगदानं कृतवन्तः नागरिकसमूहसंस्थाः स्वयंसेवकाश्च प्रमाणपत्रैः सम्मानिताः, यत् पर्यावरणनिरीक्षणे जनसहभागितायाः वर्धमानां भूमिकां दर्शयति।
अस्मिन् अवसरे केन्द्रीयराज्यमन्त्री कीर्तिवर्धनसिंहः, दिल्लीपर्यावरण-वन-वन्यजीवमन्त्री सरदार-मनजिन्दरसिंह-सिरसा तथा अन्ये वरिष्ठाः अधिकारिणः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan