विश्व-पर्यावरण-दिवसे अद्य ‘एकं वृक्षं मातुः नाम्नि’ इति अभियानस्य शुभारम्भं करिष्यति छत्तीसगढ़-राज्यस्य मुख्यमन्त्री विष्णुदेव-सायः
रायपुरनगरम्, ०५ जूनमासः (हि.स.)। विश्व-पर्यावरण-दिवसस्य अवसरे छत्तीसगढ़े पर्यावरण-संरक्षणस्य तथा जनभागितायाः प्रवर्धनाय दिशि एकः महत्वपूर्णः प्रयासः क्रियते। वन-तथा जलवायु-परिवर्तन-विभागेन रायपुर-नगरस्थे राजीव-स्मृति-उद्याने विशेष-कार्यक्रमस्य आयोज
मुख्यमंत्री विष्णुदेव साय


रायपुरनगरम्, ०५ जूनमासः (हि.स.)। विश्व-पर्यावरण-दिवसस्य अवसरे छत्तीसगढ़े पर्यावरण-संरक्षणस्य तथा जनभागितायाः प्रवर्धनाय दिशि एकः महत्वपूर्णः प्रयासः क्रियते। वन-तथा जलवायु-परिवर्तन-विभागेन रायपुर-नगरस्थे राजीव-स्मृति-उद्याने विशेष-कार्यक्रमस्य आयोजनं भविष्यति, यस्मिन् छत्तीसगढ़-राज्यस्य मुख्यमन्त्री विष्णुदेव-सायः मुख्यातिथिः रूपेण सहभागं करिष्यति।

“प्रकृत्या प्रेरितं जलवायुः, अस्माकं भविष्याय” इति विषयाधारेण आयोजिते अस्मिन् कार्यक्रमे मुख्यमन्त्री ‘एकं वृक्षं मातुः नाम्नि’ इति अभियानस्य शुभारम्भं करिष्यति। एतत् अभियानं पर्यावरण-संरक्षणाय भावनात्मक-संबन्धेन सह जन-आन्दोलनस्य स्वरूपं दातुं सार्थकः प्रयासः इति मन्यते।

कार्यक्रमे वनमन्त्री केदार-कश्यपः विशिष्टातिथिः रूपेण उपस्थितः भविष्यति। प्रधान-प्रमुख-वन-संरक्षकः तथा वन-बल-प्रमुखः अरुण-कुमार-पाण्डेयः उक्तवान् यत् अस्य अभियानस्य माध्यमेन जनान् स्वमातुः सम्मानार्थं एकं पादपं रोपयितुं तस्य संरक्षणस्य च संकल्पं ग्रहीतुं प्रेरयिष्यति।

एषः प्रयासः न केवलं पर्यावरण-संरक्षणस्य संदेशं दास्यति, अपि तु अग्रिम-वंशेभ्यः स्वच्छ-निर्विघ्न-हरित-भविष्यस्य निर्माणेऽपि महत्त्वपूर्णां भूमिकां वहिष्यति। विश्व-पर्यावरण-दिवसे आरभ्यमाणम् एतत् अभियानं प्रकृत्याः मातृत्वं च प्रति सम्मानस्य अपूर्वं संगमं भूत्वा जनान् हरितता-वृद्धये प्रेरयिष्यति।

Hindusthan Samachar / Divya Ranjan