Enter your Email Address to subscribe to our newsletters

- नवसन्ततेर्भाषाभिः संस्कारैश्च संयोजयनम् आवश्यकम् - शैफाली
हरिद्वारम्, ०५ जूनमासः(हि.स.)। शान्तिकुञ्जे दशदिवसीयभारतीयभाषा-ग्रीष्मकालीनशिविरस्य उद्घाटनं श्रीमती शैफाली पण्ड्या दीपप्रज्ज्वलनेन अकरोत्। अस्मिन् शिविरे गायत्रीविद्यापीठस्य तृतीयकक्षातः द्वादशकक्षापर्यन्तं चिताः छात्राः छात्राश्च सहभागित्वं कुर्वन्ति।
उद्घाटनसत्रं सम्बोधयन्ती श्रीमती शैफाली पण्ड्या अवदत् यत् भारतीयभाषाः अस्माकं समृद्धसांस्कृतिकसंपदः संवाहिकाः सन्ति। तया उक्तं यत् वर्तमानकाले नवसंततेः स्वमातृभाषया भारतीयसंस्कृत्या उच्चजीवनमूल्यैश्च सह संयोजनम् अत्यन्तम् आवश्यकम् अस्ति। एतादृशाणि शिविराणि बालकानां भाषिकदक्षतां वर्धयन्ति अथ च संस्कारान् नैतिकतां राष्ट्रभावनां च दृढीकर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति।
शिविरस्य समन्वयिका अवदत् यत् दशदिनपर्यन्तं सञ्चाल्यमाने अस्मिन् शिविरे विद्यार्थिनां सर्वाङ्गीणविकासं दृष्ट्वा नैतिकशिक्षा भारतीयसंस्कृतेः विविधपर्वोत्सवानां वैज्ञानिकमहत्त्वस्य ज्ञानं च प्रदास्यते। एतदतिरिक्तं आभाषिकयुगस्य आवश्यकतानुरूपं तकनीकीजागरूकता यातायातनियमानां ज्ञानं अग्निसुरक्षासम्बद्धं प्रशिक्षणम् आत्मरक्षासम्बद्धं च व्यावहारिकप्रशिक्षणं प्रदास्यते।
अस्मिन् अवसरे व्यवस्थापकः योगेन्द्रगिरिः प्रधानाचार्यः सीतारामसिन्हा महिलामण्डलस्य भगिन्यः छात्राः छात्राश्च उपस्थिताः आसन्।
Hindusthan Samachar / अंशु गुप्ता