देशे गवेः रक्षा न तु भागवतकथाश्रवणं व्यर्थम् : आचार्यो मिथिलेशनंदिनीशरणः
गोमाता राष्ट्रमाता घोषिता : आचार्य मिथिलेशनंदिनीशरणः मुरादाबादम्, 06 जूनमासः (हि.स.)।उत्तरप्रदेशस्य मुरादाबादजनपदे सीएल गुप्ता नेत्रसंस्थायाः सभागारे आयोजिते भागवतसप्ताहे पञ्चमे दिने शनिवासरे अयोध्यातः आगताः आचार्यः मिथिलेशनन्दिनीशरणमहाराजः अवदत्
सीएल गुप्ता आई इंस्टीट्यूट के सभागार में भागवत कथा का रसपान कराते कथावाचक।म।


सीएल गुप्ता आई इंस्टीट्यूट के सभागार में आयोजित भागवत में उपस्थित श्रद्धालु।


गोमाता राष्ट्रमाता घोषिता : आचार्य मिथिलेशनंदिनीशरणः

मुरादाबादम्, 06 जूनमासः (हि.स.)।उत्तरप्रदेशस्य मुरादाबादजनपदे सीएल गुप्ता नेत्रसंस्थायाः सभागारे आयोजिते भागवतसप्ताहे पञ्चमे दिने शनिवासरे अयोध्यातः आगताः आचार्यः मिथिलेशनन्दिनीशरणमहाराजः अवदत् यत् यस्मिन् देशे गां मातरम् इति कथ्यते तस्मिन् देशे गोवधः असंवैधानिकः भवितुमर्हति। यदि अस्माकं देशे गोमातुः रक्षा न भविष्यति तर्हि भागवतकथाश्रवणं व्यर्थम् अस्ति। अस्माभिः गोवधेन दुःखितं भवितव्यम्।

आचार्यः मिथिलेशनन्दिनीशरणमहाराजः अग्रे अवदत् यत् धरातले गोमातुः वधः महत्तमः कलङ्कः अस्ति। यस्याः गोमातुः शरीरे त्रयस्त्रिंशत्कोटि देवदेवतानां वासः भवति, अद्य सा एव गोमाता छिद्यते। आचार्यः अवदत् यत् गोमाता राष्ट्रमाता इति घोषितव्या। गोवधं कुर्वन्तः अथवा गोमांसस्य भक्षणं कुर्वन्तः जनाः दण्डनीयाः स्युः, तदैव गोमातरः सुरक्षिताः भवितुं शक्नुवन्ति। यस्यां धरायां श्रीकृष्णेन गोपालनं गोचरणं च कृतम्, तस्यामेव अद्य गोवधः भवति इति दुर्भाग्यपूर्णा वार्ता अस्ति। अद्य यदि प्रत्येकगृहे एका गोमातुः पालनम् अनिवार्यं क्रियेत तर्हि लक्षशः गोमातरः मार्गेषु न भ्रमिष्यन्ति।

Hindusthan Samachar / Dheeraj Maithani