Enter your Email Address to subscribe to our newsletters



प्रयागराजे संयुक्त मंडलीयखरीफ-उत्पादकता गोष्ठी सम्पन्ना, कृषकाणां समस्यानां समाधाने बलम्
प्रयागराजः, 06 जूनमासः (हि.स.)।
कृषिक्षेत्रे आत्मनिर्भरता भारतं विकसितराष्ट्रत्वस्य दिशि महत्त्वपूर्णां भूमिकां निर्वक्ष्यति। उक्तां वार्तां शनिवासरे मोतीलालनेहरूराष्ट्रियप्रौद्योगिकीसंस्थायाः एमपीसभागृहे प्रयागराज वाराणसी विंध्याचलमण्डलयोः संयुक्तमण्डलीयखरीफ-उत्पादकतासमीक्षागोष्ठी २०२६ कार्यक्रमम् सम्बोधयन् मुख्यातिथिः उत्तरप्रदेशशासनस्य कृषिमन्त्री सूर्यप्रतापशाही अवदत्।
ते अवदन् यत् एतादृशीगोष्ठीनां उद्देश्यं कृषकाणां सुझावान् प्राप्तुम् तेषां समस्याः श्रोतुं तासां समाधानस्य दिशि प्रभाविक्रमाणि स्वीकर्तुं च अस्ति। ते अवदन् यत् प्रदेशशासनं कृषकाणाम् आयवृद्ध्यर्थं निरन्तरं प्रयतते। सस्यन्यूनतमसमर्थनमूल्ये वृद्धिः कृता अस्ति तथा अधुना शासनमेव कृषकेभ्यः सस्यानां क्रयं सुनिश्चितं करोति। ते सूचितवन्तः यत् धानस्य समर्थनमूल्यं १३१० रूप्यकेभ्यः प्रति क्विण्टलम् वर्धयित्वा २३८५ रूप्यकाणि प्रति क्विण्टलं कृतम् अस्ति। वातावरणविभागेन अस्मिन् वर्षे सामान्यात् न्यूना वर्षा सम्भाव्यते इति सूचिते सति कृषिमन्त्री कृषकान् अल्पजलापेक्षासस्यानां यथा उडद मूङ्ग चणक अरहर मूङ्गफली च कृषेः प्रोत्साहनं कर्तुम् उपादिशत्।
ते कृषकान् प्राकृतिककृषिं स्वीकर्तुं सस्यचक्रस्य पालनं कर्तुं फार्मररजिस्ट्री अनिवार्यरूपेण कारयितुं च आहूतवन्तः। कार्यक्रमस्य अध्यक्षतां कुर्वन् प्रमुखसचिवः कृषि कृषकान् मृदास्वास्थ्यपत्रस्य आधारेण उर्वरकाणां सन्तुलितप्रयोगं कर्तुम् उपादिशत्। सः अवदत् यत् रासायनिकउर्वरकाणाम् अत्यधिकप्रयोगेन भूमेः उर्वरता स्वास्थ्यं च प्रभावितं भवति। कृषकाः ड्रिपसिञ्चनम् स्प्रिंकलर तथा जैविककृषिः इत्यादीनि आधुनिकस्थायिकृषितन्त्राणि स्वीकर्तुं प्रेरिताः।
कृषिमन्त्री सूर्यप्रतापशाही प्रथमं दीपप्रज्ज्वलनेन तथा एकः पादपः मातुः नाम्ना अभियानस्य अन्तर्गतं पादपारोपणेन कार्यक्रमस्य शुभारम्भम् अकरोत्। गोष्ठ्यां खरीफ-ऋतोः सज्जता कृषिरणनीतयः कृषकाणां समस्याश्च विषये विस्तरेण चर्चा अभवत्।
गोष्ठ्यां विभिन्नजनपदेभ्यः आगताः कृषकाः केसीसी सिञ्चनम् विद्युत्सेवा सौरपम्पाः प्राकृतिककृषिः नहराणां मरम्मतिः सस्यानाम् उचितमूल्यं च इत्यादीन् विषयान् उत्थापितवन्तः। सम्बन्धितविभागानाम् अधिकारिणः समस्यासमाधानार्थम् आवश्यककार्यवाहीं कर्तुम् आश्वासनम् अददुः।
अस्मिन् अवसरे कृषियन्त्रीकरणयोजनानाम् अन्तर्गतं बहुभ्यः कृषकेभ्यः अनुदानराशिः ड्रोन कस्टमहायरिङ्ग इत्यस्य केंद्रस्य कुञ्चिकाः बीजमिनीकिट् तथा आईपीएमकिट् वितरितानि। कार्यक्रमे त्रयाणां मण्डलानां मण्डलायुक्ताः मुख्यविकासाधिकारिणः कृषिवैज्ञानिकाः विभागीयाधिकारिणः तथा बहुसंख्यकाः प्रगतिशीलकृषकाः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani