अध्यापनसम्बद्धाः समस्याः मम समीपं प्रापयन्तु : आधारभूत-शिक्षा-अधिकारी
वाराणसीनगरम्, ०६ जूनमास: (हि.स.)। आदर्श-शिक्षामित्र-कल्याण-सङ्घस्य प्रदेशाध्यक्षस्य अमरेन्द्र-दुबे-महोदयस्य नेतृत्वे वाराणस्याः नवनियुक्तेन जनपद-आधारभूत-शिक्षा-अधिकारिणा भूपेन्द्र-सिंहेन सह अध्यापकाः तस्य कार्यालये मिलित्वा पुष्पगुच्छं प्रदाय तस्य
बेसिक शिक्षा अधिकारी का स्वागत करते अध्यापकगण


वाराणसीनगरम्, ०६ जूनमास: (हि.स.)। आदर्श-शिक्षामित्र-कल्याण-सङ्घस्य प्रदेशाध्यक्षस्य अमरेन्द्र-दुबे-महोदयस्य नेतृत्वे वाराणस्याः नवनियुक्तेन जनपद-आधारभूत-शिक्षा-अधिकारिणा भूपेन्द्र-सिंहेन सह अध्यापकाः तस्य कार्यालये मिलित्वा पुष्पगुच्छं प्रदाय तस्य स्वागतं कृतवन्तः। आधारभूत-शिक्षा-अधिकारी अध्यापकैः सह संवादं कृत्वा अवदत् यत् कार्यस्थलेषु अध्यापनसम्बद्धाः याः समस्याः सन्ति, ताः मम समीपं प्रापयन्तु, येन विभागः तासां समाधानं कर्तुं शक्नुयात्।

आधारभूत-शिक्षा-अधिकारिणः स्वागतानन्तरम् अध्यापकाः माध्यमिक-शिक्षा-परिषदः (बोर्ड्-कार्यालयस्य) नवनियुक्तम् अपर-सचिवं भास्कर-मिश्रम् अपि तस्य कार्यालये मिलित्वा नूतन-दायित्वस्य कृते शुभकामनाः अभिनन्दनं च प्रेषितवन्तः। भास्कर-मिश्रः अध्यापकानां निवेदनानि श्रुत्वा सर्वथा सहयोगं कर्तुं आश्वासनम् अयच्छत्।

आदर्श-शिक्षामित्र-कल्याण-सङ्घस्य प्रदेशाध्यक्षः अमरेन्द्र-दुबे अवदत् यत् वाराणस्यां शिक्षायाः गुणवत्तावर्धनाय अधिकारिभिः प्रदत्तानां दिशानिर्देशानां पालनं कृत्वा उत्तम-शिक्षा-प्रदानस्य उद्देश्येन अध्यापकाः कार्यं कुर्वन्ति। अद्य नवनियुक्त-अधिकारिभिः सह मिलित्वा तेषां स्वागतं कृत्वा परिचयः स्थापितः। अग्रिमेषु कालेषु अधिकारिभिः प्रदत्तानां दिशानिर्देशानां वयं सम्यक् पालनं करिष्यामः।

/ अंशु गुप्ता