नॉर्वे-शतरञ्ज-प्रतियोगितायाः उपाधिं विजित्य प्रज्ञाननन्दः, उपराष्ट्रपतिना शुभकामनाः प्रदत्ताः
नवदेहली, ०६ जूनमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णन युवा-ग्राण्डमास्टर आर. प्रज्ञाननन्दं नॉर्वे-शतरञ्ज-२०२६ इत्यस्य उपाधिं विजित्य शुभकामना५ प्रदत्तवान्। उपराष्ट्रपतिः स्वसन्देशे उक्तवान् यत् प्रज्ञाननन्दस्य एषा उल्लेखनीया उपलब्धिः तस्य अ
आर. प्रगनानंद (फाइल फोटो)।


नवदेहली, ०६ जूनमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णन युवा-ग्राण्डमास्टर आर. प्रज्ञाननन्दं नॉर्वे-शतरञ्ज-२०२६ इत्यस्य उपाधिं विजित्य शुभकामना५ प्रदत्तवान्।

उपराष्ट्रपतिः स्वसन्देशे उक्तवान् यत् प्रज्ञाननन्दस्य एषा उल्लेखनीया उपलब्धिः तस्य असाधारण-प्रतिभायाः, अटूट-समर्पणस्य तथा वर्षानुवर्षं कृतस्य कठोर-परिश्रमस्य प्रमाणम् अस्ति। सः अवदत् यत् वैश्विक-मञ्चे तस्य निरन्तरं उत्कृष्ट-प्रदर्शनं राष्ट्रस्य गौरवस्य विषयः अस्ति तथा च सः सम्पूर्णे भारते असंख्येभ्यः युवा-शतरञ्ज-क्रीडकाभ्यः प्रेरणां ददाति।

सः अपि अवदत् यत् प्रज्ञाननन्दः न केवलं भारतीय-शतरञ्जस्य नूतनां प्रतिष्ठां स्थापितवान्, अपितु अन्ताराष्ट्रिय-स्तरे भारतस्य मानमपि वर्धितवान्। उपराष्ट्रपतिः विश्वासं प्रकटितवान् यत् युवा-ग्राण्डमास्टरः भविष्येऽपि नूतन-शिखराणि स्पृशन् देशस्य नाम उज्ज्वलं करिष्यति।

उपराष्ट्रपतिः सी.पी. राधाकृष्णनः प्रज्ञाननन्दस्य उज्ज्वल-भविष्यस्य निरन्तर-सफलतायाश्च कामनां कृत्वा तस्मै एतस्य ऐतिहासिक-उपलब्धेः कृते शुभकामनाः प्रदत्तवान्।

उल्लेखनीयम् अस्ति यत् आर.प्रज्ञाननन्दस्य पूर्णनाम रमेशबाबू-प्रज्ञाननन्दः अस्ति। तस्य जन्म १० अगस्त २००५ तमे वर्षे चेन्नईनगरे अभवत्। सः २०१८ तमे वर्षे केवलं द्वादश-वर्षीयः सन् ग्राण्डमास्टर-पदवीं प्राप्तवान् तथा विश्वस्य न्यूनतम-वयसां ग्राण्डमास्टरेषु स्थानं प्राप्तवान्। २०२२ तमे वर्षे सः ऑनलाइन-रैपिड्-प्रतियोगितायां मैग्नस कार्लसन इत्येनं पराजित्य वैश्विक-प्रसिद्धिम् अलभत। नॉर्वे-शतरञ्ज-२०२६ इत्यस्य उपाधिं विजित्य सः पुनरपि ऐतिहासिकीम् उपलब्धिं स्वनाम्नि लिखितवान् तथा च एतां प्रतिष्ठितां प्रतियोगितां विजेतुं सफलः प्रथमः भारतीयः अभवत्।

Hindusthan Samachar / Divya Ranjan