Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, ०७ जूनमासः (हि.स.)। पश्चिमबङ्ग-राज्यसर्वकारस्य मन्त्री अग्निमित्रा-पाल: अष्टम-जून-तिथौ प्रस्तावितां इण्डी-गठबन्धनस्य सभां प्रति तीव्रं प्रहारम् अकरोत्। तया उक्तं यत् विपक्षी-गठबन्धनस्य अन्तःस्वरूपे एव एकता नास्ति तथा बहव: पक्षा: सभायां सहभागित्वं प्रति संशयस्थितौ सन्ति।
अग्निमित्रा-पाल: अवदत् यत् “सभा तु भवति, किन्तु तस्यां कः गमिष्यति?” सा वाममोर्चस्य सर्वदलीय-अध्यक्षस्य उक्तिनाम् उल्लेखं कृत्वा आरोपं कृतवती यत् सः निरन्तरं कथयति यत् भाजपा तथा वामपन्थिनां मध्ये ‘अण्डर-द-टेबल’ सन्धि: अस्ति। सा प्रश्नम् अकरोत्— यदि एवं भवति तर्हि इण्डी-गठबन्धनं वामदलान् सभायां आमन्त्रयति किमर्थम्?
तया उक्तं यत् गठबन्धनस्य सहकारी-दलानां मध्ये अपि मतभेदाः स्पष्टतया दृश्यन्ते। तस्याः अनुसारं डीएमके-दलं अपि स्वविरोधिनां आमन्त्रणं प्रति असन्तुष्टिं प्रकटितवती अस्ति, यतः सा सभायां सहभागित्वं प्रति विचारयति। राष्ट्रिय-जनता-दलस्य नेता तेजस्वी-यादवः अपि सभायां न भविष्यति इति चर्चाः प्रचलन्ति। सा तृणमूल-काङ्ग्रेसस्य उल्लेखं कृत्वा अवदत् यत् ममता-बैनर्जी-नेतृत्वस्य तृणमूल-पक्षः तस्याः दृष्टौ अधुना स्पष्टभूमिकां न धारयति।
मन्त्री उक्तवती यत् यस्य कस्यापि राजनैतिक-दलस्य अथवा गठबन्धनस्य कश्चन आदर्शः, नीति-निर्देशः वा दर्शनं न भवति, तस्य दीर्घकालिकं अस्तित्वं न सम्भवति। तया उक्तः यत् देशस्य १४०-कोटि-जनाः इण्डी-गठबन्धनं पूर्वमेव अस्वीकृतवन्तः, अतः एषा सभा पूर्णतया असफलां भविष्यति।
अग्निमित्रा-पाल: इदमपि उक्तवती यत् विपक्षा: केवलं स्वराजनैतिक-अस्तित्व-रक्षणार्थं एकत्र आगन्तुं प्रयतन्ते, किन्तु जनाः तेषां नीयतिं कार्यशैलीं च सम्यक् अवगच्छन्ति।
Hindusthan Samachar / Divya Ranjan