Enter your Email Address to subscribe to our newsletters

पश्चिम-बर्द्धमान-जनपदः, ०७ जूनमासः (हि.स.)। पश्चिमबङ्ग-सर्वकारस्य मन्त्रिणी अग्निमित्रा-पाल-महोदया राज्यस्य राजनीतिं, प्रशासनिक-व्यवस्थां, मदरसा-शिक्षां, तृणमूल-काङ्ग्रेस-नेतृभ्यः विरुद्धं प्रचलन्तीं कार्यवाहीम् तथा प्रधानमन्त्रिणः नरेन्द्र-मोदिनो नेतृत्वं च विषयीकृत्य अनेकानि महत्त्वपूर्णानि वक्तव्यानि दत्तवती। सा उक्तवती यत् राज्ये मदरसाभ्यः ५७१३ कोटि-रुप्यकाणां अनुदानं दीयते, किन्तु अस्य समीक्षणम् आवश्यकम् यत् तेन कियत् वास्तविकः लाभः विद्यार्थिभ्यः प्राप्तः तथा तेषु कियन्तः छात्राः वैज्ञानिकाः, अभियन्तारः अथवा वैद्याः अभवन् इति।
तस्याः मतम् आसीत् यत् मदरसा-शिक्षा-व्यवस्थायां आधुनिक-शिक्षायाः समुचितः समावेशः भवेत्, येन विद्यार्थिनः उत्तमान् अवसरान् प्राप्नुयुः। भारतीय-जनता-पक्षः इच्छति यत् पश्चिमबङ्गस्य विकास-यात्रायां समाजस्य सर्वे वर्गाः समानरूपेण लाभं प्राप्नुयुः।
वर्षाकाल-पूर्वतैयारी-विषये मन्त्रिणी उक्तवती यत् विपक्ष-नेतुः शुभेन्दु-अधिकारी-महोदयस्य निर्देशानुसारं सा परिस्थितेः निरीक्षणार्थं तत्र प्राप्तवती। गतवर्षे वर्षाकाले कोलकाता, दक्षिण-बङ्गः तथा उत्तर-बङ्गस्य अनेके प्रदेशाः जलप्लावनेन जलसञ्चयेन च प्रभाविताः आसन्। मौसम-विभागस्य चेतावनीनां दृष्ट्या अग्रिम-दिनेषु सम्भाव्य-बाढ-जलसञ्चय-स्थितीनां निवारणार्थं सम्बद्ध-विभागेभ्यः, नगरपालिकाभ्यः तथा प्रशासनिक-अधिकारिभ्यः सतर्कतायाः निर्देशाः दत्ताः।
तृणमूल-काङ्ग्रेस-नेतृभ्यः विरुद्धं प्रचलन्त्या कार्यवाह्या विषये अग्निमित्रा-पाल-महोदया उक्तवती यत् बङ्गालस्य जनतया भारतीय-जनता-पक्षाय विशालः जनादेशः प्रदत्तः, परिवर्तनस्य अपेक्षा च प्रकटिता। तया आरोपः कृतः यत् गतवर्षेषु संस्थापितस्य सिण्डिकेट-राजस्य, लुण्ठनस्य, चौर्यस्य भ्रष्टाचारस्य च तन्त्रस्य विरुद्धम् अधुना कार्यवाही प्रचलति। तस्याः कथनम् आसीत् यत् ये जनाः मन्यन्ते स्म यत् तेषां कश्चन किमपि कर्तुं न शक्नोति, तान् जनतया लोकतान्त्रिक-पद्धत्या समुचितं प्रत्युत्तरं दत्तम्।
मन्त्रिणी उक्तवती यत् गत-पञ्चदश-वर्षेषु तृणमूल-काङ्ग्रेसस्य अनेकैः नेतृभिः सत्तायाः दुरुपयोगः कृतः तथा जनतायाः वञ्चना कृता। अधुना तेषां कर्मणां परिणामः प्रत्यक्षतया दृश्यते।
प्रधानमन्त्रिणः नरेन्द्र-मोदी-महोदयस्य नेतृत्वस्य प्रशंसां कुर्वन्ती अग्निमित्रा-पाल-महोदया उक्तवती यत् देशे दीर्घकालं प्रधानमन्त्रि-पदे स्थितानां नेतॄणां मध्ये नरेन्द्र-मोदी-महोदयस्य नाम प्रमुखतया गण्यते, तथा भारतीय-जनता-पक्षः तस्य नेतृत्वस्य उपलब्धीनां सम्मानं करिष्यति। सा अवदत् यत् प्रधानमन्त्री मोदी अधुना विश्वस्य सर्वाधिक-लोकप्रिय-नेतृषु अन्यतमः अस्ति। अन्ताराष्ट्रिय-समस्यानां वैश्विक-चिन्ताया: च कालेऽपि भारतेन सन्तुलिता शान्तिपूर्णा च विदेश-नीतिः प्रदर्शिता। प्रधानमन्त्रिणः मोदी-महोदयस्य दूरदर्शिता, नेतृत्व-क्षमता तथा कूटनीतिक-प्रज्ञा-कारणात् भारतम् अद्य वैश्विक-मञ्चे सुदृढां प्रभावशालिनीं च भूमिकां निर्वहति तथा विश्वाय शान्तेः स्थैर्यस्य च सन्देशं प्रददाति।
Hindusthan Samachar / Divya Ranjan