Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 07 जूनमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी रविवासरे अभिनेता सलीमकुमारस्य निधनं प्रति गाढं शोकं प्रकटितवान्।
प्रधानमन्त्री मोदी एक्समाध्यमे उक्तवान्, “प्रख्यातस्य अभिनेता सलीमकुमारस्य निधनसमाचारात् अहम् अत्यन्तं दुःखितः अस्मि। स्वस्य विशिष्टकार्यजीवनकाले तेन विविधपात्रेषु स्वीयां बहुमुखप्रतिभां प्रदर्श्य स्मरणीयाभिः अभिनयप्रस्तुतिभिः अमिटं चिह्नं स्थापितम्। अस्मिन् दुःखसमये मम संवेदनाः तस्य परिवारस्य असंख्यप्रशंसकानां च सह सन्ति। ॐ शान्तिः।”
उल्लेखनीयम् अस्ति यत् राष्ट्रियपुरस्कारविजेता अभिनेता सलीमकुमारः ज्वरस्य श्वासग्रहणकठिनतायाश्च कारणेन चिकित्सालये प्रविष्टः आसीत्, यत्र शनिवासरे रात्रौ १० वादनस्य ४३ निमेषे हृदयाघातस्य कारणेन तस्य निधनम् अभवत्। तस्य वयः षट्पञ्चाशत् वर्षाणि आसीत्।
प्रशंसकैः आदमिण्टे मकान अबू तथा पुलिवल कल्याणम् इत्यादिषु त्रिशताधिकेषु चलच्चित्रेषु तेन निर्वाहिताः स्मरणीयाः भूमिकाः स्मारिताः। तस्य परिवारमध्ये पत्नी सुनीता तथा त्रयः अपत्याः सन्ति। केरलराज्येन तस्य अन्त्येष्टिसंस्कारार्थं राजकीयसम्मानः प्रदत्तः।
।
---------------
Hindusthan Samachar / Dheeraj Maithani