प्रसिद्ध-कवेः पार्वतीप्रसाद-बरुवा-महोदयस्य स्मरणं मुख्यमन्त्रिणा कृतम्
गुवाहाटीनगरम्, ०७ जूनमासः (हि.स.)। असम-राज्यस्य मुख्यमन्त्री डाॅ.हिमन्त-बिस्व-शर्मा-महोदयः प्रसिद्धस्य कवेः गीतकारस्य नाटककारस्य च पार्वतीप्रसाद-बरुवा-महोदयस्य पुण्यतिथौ तं स्मरन् स्वीयां श्रद्धाञ्जलिम् अर्पितवान्। मुख्यमन्त्री सामाजिक-माध्यमे प्र
असमः मुख्यमंत्री डॉ. हिमंत बिस्व सरमा द्वारा शेयर चित्र


गुवाहाटीनगरम्, ०७ जूनमासः (हि.स.)। असम-राज्यस्य मुख्यमन्त्री डाॅ.हिमन्त-बिस्व-शर्मा-महोदयः प्रसिद्धस्य कवेः गीतकारस्य नाटककारस्य च पार्वतीप्रसाद-बरुवा-महोदयस्य पुण्यतिथौ तं स्मरन् स्वीयां श्रद्धाञ्जलिम् अर्पितवान्।

मुख्यमन्त्री सामाजिक-माध्यमे प्रकाशिते सन्देशे उक्तवान् यत् असमस्य प्रसिद्धः कविः, गीतकारः, नाटककारश्च पार्वतीप्रसाद-बरुवा-महोदयः तस्य पुण्यतिथौ श्रद्धया स्मर्यते, तस्मै च श्रद्धाञ्जलिः अर्प्यते।

मुख्यमन्त्री उक्तवान् यत् गीतकारत्वेन प्रसिद्धः बरुवा-महोदयः गीति-साहित्यस्य क्षेत्रे महत्त्वपूर्णं योगदानम् अयच्छत्। तेन असमिया-चलच्चित्र-निर्माणस्य क्षेत्रेऽपि असमस्य चलचित्रोद्योगाय नूतना दिशा प्रदर्शिता। तस्य रचनाः प्रत्येकस्य असमिय-जनस्य मानसपटले चिरकालं जीविष्यन्ति।

उल्लेखनीयम् अस्ति यत् पार्वतीप्रसाद-बरुवा-महोदयस्य जन्म १९०४ तमस्य वर्षस्य अगस्त-मासस्य १९ दिनाङ्के शिवसागर-जनपदे अभवत्। तस्य निधनं १९६४ तमस्य वर्षस्य जून-मासस्य ०७ दिनाङ्के अभवत्।

सः असमस्य प्रख्यातः साहित्यकारः, गीतकारः, कविः, चलच्चित्र-निर्माता तथा नाटककारः आसीत्। विशेषतः गीतकारत्वेन सः विख्यातः आसीत्। तेन १९४० तमे वर्षे ‘रूपही’ नामकं चलच्चित्रं निर्मितम्। एतत् असमस्य चतुर्थं चलच्चित्रम् आसीत्। केवलं चलच्चित्र-निर्माणमेव न, अपितु तस्मिन् चलच्चित्रे तेन अभिनयमपि कृतम्।

छात्रजीवने एव तेन ‘टुपितरा’ इति नाम्ना हस्तलिखिता पत्रिका प्रकाशिताभूत्। तस्याः पत्रिकायाः प्रकाशनं निरुद्धे सति तेन स्वस्य अनुजेन मोक्षदा-प्रसादेन सम्पादितायां ‘घर-ज्योति’ इति पत्रिकायां लेखनकार्यं कृतम्।

पार्वतीप्रसाद-बरुवा-महोदयः १९६१ तमे वर्षे गुवाहाटीनगरे आयोजितस्य असम-साहित्य-सभायाः संगीत-सम्मेलनस्य अध्यक्ष-पदमपि अलङ्कृतवान्।

Hindusthan Samachar / Divya Ranjan