कृष्णकान्त-हाण्डिकस्य पुण्यतिथौ मुख्यमन्त्रिणा श्रद्धया स्मरणं कृतम्
गुवाहाटीनगरम्, ०७ जूनमासः (हि.स.)। असम-राज्यस्य मुख्यमन्त्री डाॅ.हिमन्त-बिस्व-शर्मा-महोदयः अद्य पण्डितप्रवरस्य डाॅ.कृष्णकान्त-हाण्डिक-महोदयस्य पुण्यतिथौ स्वीयां श्रद्धाञ्जलिम् अर्पितवान्। मुख्यमन्त्री सामाजिक-माध्यमे प्रकाशिते सन्देशे उक्तवान् यत्
असमः मुख्यमंत्री डॉ. हिमंत बिस्व सरमा द्वारा शेयर चित्र


गुवाहाटीनगरम्, ०७ जूनमासः (हि.स.)। असम-राज्यस्य मुख्यमन्त्री डाॅ.हिमन्त-बिस्व-शर्मा-महोदयः अद्य पण्डितप्रवरस्य डाॅ.कृष्णकान्त-हाण्डिक-महोदयस्य पुण्यतिथौ स्वीयां श्रद्धाञ्जलिम् अर्पितवान्।

मुख्यमन्त्री सामाजिक-माध्यमे प्रकाशिते सन्देशे उक्तवान् यत् असाधारण-पाण्डित्येन, ज्ञान-अन्वेषणेन समाजाय कृत-योगदानेन च पण्डितप्रवरः डाॅ.कृष्णकान्त-हाण्डिक-महोदयः असम-राज्याय नूतनाम् बौद्धिक-दिशां प्रदत्तवान्। शिक्षायाः प्रसारे, संस्कृतेः संरक्षणे तथा साहित्यस्य समृद्धौ तस्य योगदानं सर्वदा स्मरणीयं भविष्यति।

सः उक्तवान् यत् असमस्य शिक्षा-साहित्य-सांस्कृतिक-जागरणयोः अद्वितीयः मार्गदर्शकः हाण्डिक-महोदयः आसीत्। तस्य पावन-पुण्यतिथौ वयं तस्मै श्रद्धाञ्जलिम् अर्पयामः। तस्य आदर्शाः, कर्मनिष्ठा तथा ज्ञानस्य प्रकाशः भावि-वंश: निरन्तरं प्रेरयिष्यन्ति।

उल्लेखनीयम् अस्ति यत् कृष्णकान्त-हाण्डिक-महोदयस्य जन्म १८९८ तमस्य वर्षस्य जुलाई-मासस्य २० दिनाङ्के असम-राज्यस्य जोरहाट-जनपदस्य सातघरिया-अहोम-कुले अभवत्, तथा च तस्य निधनं १९८२ तमस्य वर्षस्य जून-मासस्य ०७ दिनाङ्के अभवत्। तस्य पितुः नाम रायबहादुर-राधाकान्त-हाण्डिकः आसीत्, यः चाय-कृषकः आसीत्, मातुः नाम च नारायणी-हाण्डिकः आसीत्।

सः असमस्य प्रख्यातः लेखकः, संस्कृत-विद्वान् तथा शिक्षाविद् आसीत्। संस्कृत-भाषायां भाषाविज्ञानस्य च क्षेत्रे सः अद्वितीयं पाण्डित्यं प्रदर्शितवान्। श्रीहर्षस्य ‘नैषधचरितम्’, सोमदेवस्य ‘यशस्तिलकम्’ इत्यादीनां ग्रन्थानां अनुवादैः सः राष्ट्रीय-अन्ताराष्ट्रिय-स्तरे ख्यातिम् अलभत।

नववर्षपर्यन्तं गौहाटी-विश्वविद्यालयस्य उपकुलपतित्व-पदं वहन् हाण्डिक-महोदयः केवलं नवत्रिंशद्वर्षीयः सन् १९३७ तमे वर्षे असम-साहित्य-सभायाः गुवाहाटी-अधिवेशनस्य अध्यक्षरूपेण अपि निर्वाचितः।

उल्लेखनीयम् अस्ति यत् असमस्य अनेकेषां सार्वजनिक-कार्यक्रमाणां विकासाय उदारतया दानं दत्त्वा रायबहादुर-राधाकान्त-हाण्डिकः जनैः कृतज्ञतया ‘दानवीर’ इति उपाध्या सम्मानितः। दानवीर-राधाकान्त-हाण्डिकस्य चतुर्षु पुत्रेषु कृष्णकान्त-हाण्डिकः ज्येष्ठः पुत्रः आसीत्। तस्य माता नारायणी-देवी असमस्य अन्यस्य प्रख्यातस्य विदुषः पद्मनाथ-गोहाञि-बरुवा-महोदयस्य भगिनी आसीत्।

Hindusthan Samachar / Divya Ranjan