प्रसिद्ध-कविना नाटककारेण च अतुलचन्द्र-हजारिका-महोदयस्य पुण्यतिथौ मुख्यमन्त्रिणा श्रद्धाञ्जलिः अर्पितः
गुवाहाटीनगरम्, ०७ जूनमासः (हि.स.)। असम-राज्यस्य मुख्यमन्त्री डाॅ.हिमन्त-बिस्व-शर्मा-महोदयः अद्य प्रसिद्धस्य कवेः, नाटककारस्य, गद्यलेखकस्य, शोधकर्तुः बालसाहित्यकारस्य च अतुलचन्द्र-हजारिका-महोदयस्य पुण्यतिथौ स्वीयाः संवेदनाः व्यक्तवान्। मुख्यमन्त्री
असमः मुख्यमंत्री डॉ. हिमंत बिस्व सरमा द्वारा शेयर किया पोस्ट


गुवाहाटीनगरम्, ०७ जूनमासः (हि.स.)। असम-राज्यस्य मुख्यमन्त्री डाॅ.हिमन्त-बिस्व-शर्मा-महोदयः अद्य प्रसिद्धस्य कवेः, नाटककारस्य, गद्यलेखकस्य, शोधकर्तुः बालसाहित्यकारस्य च अतुलचन्द्र-हजारिका-महोदयस्य पुण्यतिथौ स्वीयाः संवेदनाः व्यक्तवान्।

मुख्यमन्त्री डाॅ.शर्मा सामाजिक-माध्यमे फेसबुक-माध्यमेन प्रकाशिते सन्देशे उक्तवान् यत् अतुलचन्द्र-हजारिका-महोदयः असमिया-साहित्यस्य विशाल-क्षेत्रस्य चिरसम्माननीयः व्यक्तित्वम् आसीत्। असम-साहित्य-सभायाः अध्यक्ष-पदमपि अलङ्कृतवान्। हजारिका-महोदयस्य रचनाः अस्मभ्यं प्रकाशस्य मार्गं प्रदर्शितवन्त्यः।

साहित्याचार्यस्य तस्य योगदानेन असमिया-साहित्य-जगतः विशाल-असमिया-समाजस्य च वंश-परम्परया निरन्तरं प्रेरणा प्राप्स्यते। अद्य तस्य पुण्यतिथौ वयं तम् श्रद्धया स्मरामः।

उल्लेखनीयम् अस्ति यत् अतुलचन्द्र-हजारिका-महोदयस्य जन्म १९०३ तमस्य वर्षस्य सेप्टेम्बर-मासस्य ०९ दिनाङ्के गुवाहाटीनगरे अभवत्। तस्य पितुः नाम रमाकान्त-हजारिका तथा मातुः नाम निरूपमा-हजारिका आसीत्। तस्य निधनं १९८६ तमस्य वर्षस्य जून-मासस्य ०७ दिनाङ्के अभवत्।

सः असमिया-भाषायाः कविः, नाटककारः, गद्यलेखकः तथा बालसाहित्यकारः आसीत्। १९५३ तः १९५६ पर्यन्तं सः निरन्तरं त्रिवारम् असम-साहित्य-सभायाः महासचिवः निर्वाचितः। १९५९ तमस्य वर्षस्य असम-साहित्य-सभायाः नगांव-अधिवेशने सः सम्मेलनस्य अध्यक्षतां कृतवान्। असम-साहित्य-सभया १९८२ तमे वर्षे तस्मै ‘साहित्याचार्य:’ इति उपाधिः प्रदत्ता।

हजारिका-महोदयेन असमे नाट्य-आन्दोलनस्य प्रारम्भः कृतः तथा असमस्य रङ्गमञ्चे गहनः प्रभावः स्थापितः, यस्य परिणामस्वरूपं बाङ्ग्ला-नाटकानां प्रभुत्वं असम-रङ्गमञ्चात् क्रमशः निवृत्तम्।

Hindusthan Samachar / Divya Ranjan