Enter your Email Address to subscribe to our newsletters


लखनऊनगरम्, ०७ जूनमासः (हि.स.)। भारतीयजनता-पक्षस्य प्रदेश-मुख्यालये रविवासरे पण्डित-दीनदयाल-उपाध्याय-प्रशिक्षण-अभियानस्य–२०२६ अन्तर्गतं जनपद-प्रशिक्षण-वर्गाणां समीक्षा-सभा आयोजिता। अस्मिन् अवसरे मुख्यातिथिरूपेण उपस्थितौ भाजपायाः राष्ट्रिय-मन्त्री ओमप्रकाश-धनखड-महोदयः तथा प्रदेश-सङ्गठन-मन्त्री धर्मपाल-सिंह-महोदयः दीप-प्रज्वालनेन समीक्षा-सभायाः शुभारम्भम् अकुरुताम्।
सभायां प्रदेश-पदाधिकारिभिः सह प्रशिक्षण-अभियानस्य प्रगतिः, सङ्गठनात्मक-गतिविधयः तथा आगामी-कार्ययोजना इत्यादिषु विषये विस्तृत-चर्चा कृता।
भाजपायाः प्रदेश-महामन्त्री (सङ्घटन) धर्मपाल-सिंह-महोदयः सङ्गठनं अधिकं सुदृढं, सक्रियं जनोन्मुखं च कर्तुं सङ्कल्पं व्यक्त्वा प्रशिक्षण-अभियानस्य सफल-सम्पादनाय कार्यकर्तॄन् प्रेरितवान्।
सभायां अवध-कानपुर-गोरक्ष-काशी-पश्चिम- तथा ब्रज-क्षेत्रेषु कार्यरतैः कार्यकर्तृभिः सह राष्ट्रिय-मन्त्री ओमप्रकाश-धनखड-महोदयेन संवादः कृतः।
Hindusthan Samachar / Divya Ranjan