Enter your Email Address to subscribe to our newsletters

पटना, 07 जूनमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः मोहनराव भागवतः शनिवासरे मध्याह्ने स्वस्य त्रिदिवसीयस्य बिहारप्रवासस्य निमित्तं पटनानगरम् आगच्छत्। पटनाविमानस्थले तस्य स्वागतं प्रदेशस्य मुख्यमन्त्री सम्राट चौधरी तथा संघस्य भारतीयजनतापक्षस्य च वरिष्ठपदाधिकारिभिः कृतम्।
पटनानगरम् आगत्य डा भागवतः सायंकाले मुङ्गेरनगरस्य कृते प्रस्थितः भविष्यति, यत्र सः ७ जूनतः ९ जूनपर्यन्तम् आयोजितेषु विविधेषु संगठनात्मककार्यक्रमेषु सहभागित्वं करिष्यति। अस्मिन् काले तस्य प्रमुखः कार्यक्रमः मुङ्गेरस्थिते सरस्वतीविद्यामन्दिरस्य पुरानीगञ्जपरिसरे आयोजिते संघशिक्षावर्गे सहभागित्वम् अस्ति। संघस्य अस्मिन् प्रशिक्षणवर्गे बिहारप्रदेशसहितं विभिन्नप्रदेशेभ्यः आगताः प्रायः ७०० स्वयंसेवकाः सहभागित्वं कुर्वन्ति।
संघशिक्षावर्गः राष्ट्रीयस्वयंसेवकसंघस्य महत्त्वपूर्णेषु प्रशिक्षणकार्यक्रमेषु गण्यते। अस्मिन् वर्गे स्वयंसेवकेभ्यः संगठनस्य कार्यपद्धतिः अनुशासनम् सामाजिकदायित्वानि राष्ट्रजीवनसम्बद्धाः विविधविषयाश्च विषये प्रशिक्षणं दीयते। डा भागवतः स्वप्रवासकाले स्वयंसेवकानां मार्गदर्शनं करिष्यति तैः सह संवादं च करिष्यति।
संघप्रमुखः स्वसम्बोधने स्वयंसेवकेभ्यः संघस्य विचारधारायाः संगठनस्य आगामिकार्यक्रमाणां शताब्दीवर्षस्य आयोजनानां च सम्बन्धे सूचना प्रदास्यति। सहैव सः राष्ट्रनिर्माणप्रक्रियायां स्वयंसेवकानां भूमिका सामाजिकसमरसता सेवाकार्याणि तथा समाजस्य विभिन्नवर्गाणां मध्ये संगठनस्य सम्पर्कविस्तारः इत्यादिविषयेषु अपि विचारान् प्रस्तोष्यति।
संघस्य शताब्दीवर्षस्य उपलक्ष्ये देशव्यापिनः विशेषकार्यक्रमाः परिकल्प्यन्ते। अस्यैव क्रमस्य अन्तर्गतं स्वयंसेवकानां अधिकसक्रियभूमिकानिर्वहणे समाजस्य विभिन्नक्षेत्रेषु संवादवर्धने तथा सेवाकार्यकलापानां विस्तारकरणे अपि विशेषः बलः दीयते।
स्वस्य त्रिदिवसीयप्रवासकाले डा भागवतः संगठनस्य वरिष्ठपदाधिकारिभिः सह उपवेशनम् अपि कर्तुं शक्नोति, यस्मिन् संगठनात्मककार्यकलापानां विस्तारयोजनानां आगामिकार्यक्रमाणां च समीक्षा क्रियमाणा भवितुमर्हति। किन्तु आधिकारिकरूपेण उपवेशनस्य विस्तृतकार्यक्रमस्य सूचना अद्यापि न प्रसारिता।
उल्लेखनीयम् अस्ति यत् राष्ट्रीयस्वयंसेवकसंघः स्वस्य शताब्दीवर्षस्य अवसरे देशव्यापिनः विविधकार्यक्रमान् आयोजयति। एतेषां आयोजनानां माध्यमेन संघः स्वविचारधारां सेवाकार्यकलापान् संगठनात्मककार्याणि च समाजस्य व्यापकवर्गेषु प्रसारयितुं प्रयतते। बिहारप्रवासः अपि अस्य व्यापकाभियानस्य महत्त्वपूर्णः अंशः इति मन्यते।---------------
Hindusthan Samachar / Dheeraj Maithani