मुख्यमन्त्री साय-महोदयः अद्य चन्द्रनाहू-कुर्मी-समाजस्य केन्द्रीय-अधिवेशने सहभागं करिष्यति
रायपुरम्, ०७ जूनमासः (हि.स.)। छत्तीसगढ-राज्यस्य मुख्यमन्त्री विष्णुदेव-साय-महोदयः अद्य रविवासरे रायपुर-धमतरी-जनपदयोः आयोजितेषु विभिन्नेषु सामाजिक-कार्यक्रमेषु सहभागं करिष्यति। निर्धारित-कार्यक्रमानुसारं सः मध्याह्ने १२:३० वादने मुख्यमन्त्री-निवासात
मुख्यमंत्री विष्णु देव साय


रायपुरम्, ०७ जूनमासः (हि.स.)। छत्तीसगढ-राज्यस्य मुख्यमन्त्री विष्णुदेव-साय-महोदयः अद्य रविवासरे रायपुर-धमतरी-जनपदयोः आयोजितेषु विभिन्नेषु सामाजिक-कार्यक्रमेषु सहभागं करिष्यति। निर्धारित-कार्यक्रमानुसारं सः मध्याह्ने १२:३० वादने मुख्यमन्त्री-निवासात् रायपुरतः धमतरी-नगराय प्रस्थितः भविष्यति।

धमतरी-नगरं प्राप्य सः मध्याह्ने प्रायः १:३० वादने क्षेत्रीय-चन्द्रनाहू-कुर्मी-समाजस्य केन्द्रीय-अधिवेशने सहभागं करिष्यति तथा समाजस्य प्रतिनिधीन् पदाधिकारिणश्च सम्बोधयिष्यति। कार्यक्रमस्य अनन्तरं मुख्यमन्त्री रायपुरं प्रत्यागमिष्यति।

ततः परं सायं ४ वादने सः बलबीर-सिंह-जुनेजा-इण्डोर-स्टेडियम-मध्ये आयोजिते राष्ट्रीय-मत्स्यजीवि-सङ्घस्य शपथ-ग्रहण-समारोहे सहभागं करिष्यति।

कार्यक्रमस्य अनन्तरं सायं ५:१५ वादनपर्यन्तं मुख्यमन्त्री-निवासं प्रत्यागन्तुं तस्य कार्यक्रमः निर्धारितः अस्ति।

हिन्दुस्थान समाचार / Divya Ranjan