दिग्विजय सिंहः प्रधानमंत्रिणेऽलिखत् पत्रं, केंद्रीयमाध्यमिकशिक्षापरिषदा 9-10 कक्षयोःकृते तृतीयभाषा प्रारब्धुमवरोधस्य याचना
नवदिल्ली, 07 जूनमासः (हि.स.)। काङ्ग्रेसस्य वरिष्ठनेता तथा शिक्षामहिलाबालयुवाक्रीडासम्बद्धसंसदीयस्थायिसमितेः अध्यक्षः दिग्विजयसिंहः प्रधानमन्त्रीं नरेन्द्रमोदिनं पत्रं प्रेष्य सीबीएसई संस्थायाः नवमदशमकक्षायाः विद्यार्थिनां कृते तृतीयभाषायाः अनिवा
दिग्विजय सिंह


नवदिल्ली, 07 जूनमासः (हि.स.)।

काङ्ग्रेसस्य वरिष्ठनेता तथा शिक्षामहिलाबालयुवाक्रीडासम्बद्धसंसदीयस्थायिसमितेः अध्यक्षः दिग्विजयसिंहः प्रधानमन्त्रीं नरेन्द्रमोदिनं पत्रं प्रेष्य सीबीएसई संस्थायाः नवमदशमकक्षायाः विद्यार्थिनां कृते तृतीयभाषायाः अनिवार्यप्रवर्तनसम्बद्धनिर्णयस्य त्वरितस्थगनस्य मागणीं कृतवान्। तेन उक्तं यत् एषः निर्णयः न केवलं पर्याप्तसिद्धतां विना स्वीकृतः, अपितु सीबीएसई सञ्चालनपरिषदः पूर्वनिर्णयस्य अपि विपरीतः अस्ति।

काङ्ग्रेसमहासचिवः सञ्चारविभागस्य जयरामरमेशः रविवासरे सामाजिकमाध्यममञ्चे एक्स इत्यत्र दिग्विजयसिंहस्य पत्रं सामायिकीकृत्य उक्तवान् यत् नवमदशमकक्षयोः पाठ्यक्रमे तृतीयभाषा मनमानेन तथा योजनारहितरीत्या समावेश्यते। एषः उपक्रमः सीबीएसई सञ्चालनपरिषदः स्वकीयनिर्णयस्य तथा शैक्षणिकनियोजनस्य स्थापितमानदण्डानां विपरीतः अस्ति।

प्रधानमन्त्रिणे लिखिते पत्रे दिग्विजयसिंहः उक्तवान् यत् तस्मै सीबीएसई नवमकक्षायाः विद्यार्थिनां पालकानां कस्यचित् समूहस्य पक्षतः ज्ञापनं प्राप्तम्, यस्मिन् शैक्षणिकसत्रस्य मध्ये त्रिभाषानीतेः प्रवर्तनस्य विरोधः कृतः अस्ति। तेन पालकानां चिन्ताः यथार्थाः इति स्वीकृत्य अस्मिन् विषये त्वरितहस्तक्षेपस्य आवश्यकता प्रकटिता।

दिग्विजयसिंहः उक्तवान् यत् सीबीएसई सञ्चालनपरिषदा दिसम्बर २०२५ तमे वर्षे सम्पन्नायां बैठके पाठ्यचर्यासमित्याः तस्याः अनुशंसायाः अनुमोदनं कृतम्, यस्यां उक्तं यत् भाषाणां क्रमिकपाठ्यपुस्तकानि उपलब्धानि न भवन्ति तावत् वर्तमानभाषाव्यवस्था यथावत् प्रवर्तताम्। तथापि सीबीएसई संस्थया १५ मई दिनाङ्के निर्गते परिपत्रे १ जुलाई दिनाङ्कात् नवमकक्षायां तृतीयभाषायाः प्रवर्तनाय निर्देशाः प्रदत्ताः।

तेन उक्तं यत् एनसीईआरटी संस्थया अद्यापि सम्बद्धभाषाणां क्रमिकपाठ्यपुस्तकानि प्रकाशितानि न सन्ति तथा सीबीएसई संस्था सम्प्रति षष्ठकक्षायाः पुस्तकानां उपयोगस्य अनुशंसां करोति। अनेन सहस्रशः विद्यालयानां शैक्षणिकनियोजनं प्रभावितं भवितुम् आशङ्का वर्तते।

पत्रे दिग्विजयसिंहेन दक्षिणपूर्वोत्तरराज्यानां विशेषपरिस्थितीनामपि उल्लेखः कृतः। तेन उक्तं यत् एतेषु प्रदेशेषु हिन्दीभाषा व्यापकतया न भाष्यते तथा अनेकाः स्थानीयजनजातीयभाषाः सीबीएसई मान्यताप्राप्तभाषासूच्यां समाविष्टाः न सन्ति। संस्कृतभाषायाः तृतीयभाषारूपेण स्वीकृत्याः सम्भावना वर्धमाना अस्ति, किन्तु योग्यसंस्कृतशिक्षकाणां तथा उपयुक्तपाठ्यपुस्तकानां गम्भीरः अभावः वर्तते।

दिग्विजयसिंहः प्रधानमन्त्रीं प्रति आग्रहं कृतवान् यत् वर्तमानसत्रस्य नवमकक्षायाः विद्यार्थिनां कृते अस्याः नीत्याः क्रियान्वयनं त्वरितप्रभावेन स्थगितं क्रियताम्। अस्मिन् प्रकरणे न्यायालये श्रवणप्रक्रिया प्रलम्बिता अस्ति तथा अग्रिमा श्रवणतिथिः १५ जुलाई इति निर्धारिता अस्ति, यदा विद्यालयैः १ जुलाई दिनाङ्कात् नूतनव्यवस्था प्रवर्तनीया अस्ति। अतः छात्रहितस्य कृते शीघ्रतया निर्णयग्रहणं परिहर्तव्यम्।

तेन उक्तं यत् लक्षशः विद्यार्थिनां शैक्षणिकभविष्यं सुविचारितेषु सुसिद्धेषु च नीतिनिर्णयेषु आश्रितम् अस्ति, अतः अस्मिन् विषये संवेदनशीलतया तथा गम्भीरतया विचारः करणीयः।

---------------

Hindusthan Samachar / Dheeraj Maithani