विपक्षी गठबंधनस्य उपवेशने 23 दलानि सम्मेलिष्यन्ते , 8 जून दिनांके नव दिल्ल्यामुपवेशने
नवदिल्ली, 07 जूनमासः (हि.स.)।काङ्ग्रेस-महासचिवः (संचार) जयरामः रमेशः अवदत् यत् विपक्षीदलस्य इण्डी-गठबन्धनस्य ८ जून दिनांके नवदिल्ल्यां भविष्यत्याः सभायां २३ राजनीतिक-दलानां भागग्रहणस्य पुष्टिः जाता अस्ति। एषा सभा मध्याह्ने १२ वादने कॉन्स्टिट्यूशन-
जयराम रमेश


नवदिल्ली, 07 जूनमासः (हि.स.)।काङ्ग्रेस-महासचिवः (संचार) जयरामः रमेशः अवदत् यत् विपक्षीदलस्य इण्डी-गठबन्धनस्य ८ जून दिनांके नवदिल्ल्यां भविष्यत्याः सभायां २३ राजनीतिक-दलानां भागग्रहणस्य पुष्टिः जाता अस्ति। एषा सभा मध्याह्ने १२ वादने कॉन्स्टिट्यूशन-क्लबे आयोजिष्यते।

जयरामः रमेशः रविवासरे सामाजिक-माध्यम-प्लेटफार्म-एक्सस्योपरि अवदत् यत् — इण्डी-गठबन्धनस्य (इण्डिया-जनबन्धनस्य) केचन दलाः पृथक्-पृथक्-कारणेभ्यः अस्यां विशेष-सभायां सम्मिलितुम् असमर्थतां प्राकटयन्ति। यद्यपि तैरपि केन्द्र-सर्वकारस्य तासां नीतीनां कार्यवाहीनाञ्च विरोधः कृतः याः लक्षाणां भारतीयानां मताधिकारं प्रभावयन्ति, संविधाने आक्रमणं कुर्वन्ति, अन्वेषण-अभिकरणानां माध्यमेन च विपक्षी-नेतॄन् लक्ष्यं कुर्वन्ति।

तेन आरोपः आरोपितः यत् — केन्द्र-सर्वकारस्य नीतीभिः कोटि-कोटि-जनानां जीविका प्रभाविता भवति। निरन्तरं वर्धमाना महंगाई गार्हस्थ्य-बजेटे प्रभावं ददाति। तेन सह युवकानां आशानाम् आकाङ्क्षाणाञ्च सह विश्वासघातः क्रियते। सर्वकारः निवेशस्य वातावरणं दुर्बलं करोति, स्वकीयायाः विदेश-नीतेः माध्यमेन च राष्ट्रीय-हितेभ्यः समझौता करोति।

---------------

Hindusthan Samachar / Dheeraj Maithani