Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, ०७ जूनमासः (हि. स.)। पिङ्क-सिटी-प्रेस-क्लब-इत्यत्र रविवासरे दश-दिवसीय-बाल-अभिरुचि-शिविरस्य शुभारम्भः जयपुर-नगरस्य सांसदया मंजू-शर्मणा कृतः।
अस्मिन् अवसरे तया बालकान् शिक्षया सह कला-संस्कृति-रचनात्मक-गतिविधिषु च सहभागितायै प्रेरितं कृत्वा उक्तं यत् एतादृशानि शिविराणि बालानां प्रतिभायाः परिष्काराय तथा आत्मविश्वास-वृद्धये महत्त्वपूर्णां भूमिकां निर्वहन्ति।
सांसदया शिविरे बालकैः प्रस्तुतानां सङ्गीत-नृत्य-आदि-सांस्कृतिक-प्रस्तुतीनां प्रशंसां कृत्वा तेषां उत्साहः वर्धितः। तया इदमपि उक्तं यत् प्रत्येकस्मिन् बालके काचित् विशेषा प्रतिभा भवति, या उचित-मार्गदर्शनेन अवसरैः च नूतनं परिचयं प्राप्तुं शक्नोति।
तया प्रकृति-पर्यावरण-संरक्षणस्य जागरूकतायाः अपि बलं दत्तम्। सा सूचितवती यत् शिविरकाले बालानां कृते वन-सफारी-यात्रा आयोजनीया, येन ते वन्यजीवानां, प्राकृतिक-संसाधनानां तथा पर्यावरणस्य महत्त्वं सम्यक् अवगन्तुं शक्नुवन्ति।
क्लबस्य महासचिवः राजकुमार-शर्मा अवदत् यत् ०७ तः १७ जूनपर्यन्तं प्रचलति अस्मिन् शिविरे बालकेभ्यः अभिनय-सङ्गीत-नृत्य-मार्शल-आर्ट-आदि-रचनात्मक-विधासु प्रशिक्षणं प्रदीयते।
विभिन्न-क्षेत्रेषु विशेषज्ञाः बालकान् प्रशिक्षयित्वा तेषां प्रतिभायाः व्यक्तित्व-विकासस्य च नूतनां दिशां दास्यन्ति। शुभारम्भ-अवसरे क्लब-अध्यक्षः मुकेश-कुमार-मीणा, संयोजिका अनिता-शर्मा, उपाध्यक्षः डॉ.मोनिका-शर्मा, कार्यकारिणी-सदस्याः, पत्रकाराः, तेषां परिवाराः तथा बहुसंख्यकाः बालकाः अभिभावकाः च उपस्थिताः आसन्। आयोजकैः उक्तं यत् १७ जूनपर्यन्तं प्रचलिते अस्मिन् शिविरे बालानां रचनात्मक-क्षमता, नेतृत्व-कौशलं तथा आत्मविश्वासं विकसितुं विविधाः गतिविधयः आयोजिताः भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan