Enter your Email Address to subscribe to our newsletters

नवदेहली, ०७ जूनमासः (हि. स.)। जल-सङ्कटं प्रति दृष्ट्वा दिल्ली-सर्वकारस्य विरुद्धं कांग्रेस-दलेन रविवासरे बुराड़ी-क्षेत्रे घट-भङ्ग-प्रदर्शनं कृतम्।
दिल्ली-प्रदेश-कांग्रेस-समितेः अध्यक्षः देवेंद्र-यादवः बुराड़ी-स्थितस्य दिल्ली-जल-परिषद्-कार्यालयस्य बहिः आयोजिते घट-भङ्ग-प्रदर्शने सहभागं कृतवान्। सः राजधान्यां वर्धमानस्य जलसङ्कटस्य विषये दिल्ली-सर्वकारस्य नीतिनां विरोधं कृत्वा उक्तवान् यत् जनाः जलस्य एकैक-बिन्दोः कृते क्लेशं अनुभवन्ति, किन्तु सर्वकारः समस्यायाः समाधानस्य स्थाने शून्य-प्रचारे एव निमग्ना अस्ति।
अस्मिन् अवसरे जनपद-कांग्रेस-अध्यक्षः मंगेश-त्यागी, प्रदेश-प्रवक्ता नरेन्द्र-सोनी तथा अन्ये पदाधिकारी-कार्यकर्तारश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan