ढली-रामपुर-चतुष्पथ-राजमार्गस्य सर्वेक्षणं पूर्णम्, सुरङ्गेषु भविष्यति प्राधान्यम् - मुख्यमन्त्री सुक्खुः
शिमलानगरम्, ०७ जूनमासः (हि.स.)। राजधानी-शिमला-नगरं उच्चभागैः सह संयोजयन्ती महत्त्वपूर्णा ढली-नारकण्डा-रामपुर-पथः चतुष्पथ-राजमार्गरूपेण विकसितुं महती प्रगति: अभवत्। मुख्यमन्त्री सुखविन्दर-सिंह-सुक्खुः रविवासरे उक्तवान् यत् अस्य महत्त्वाकाङ्क्षिणः पर
मुख्यमंत्री मंदिर में पूजा अर्चना करते हुए।


शिमलानगरम्, ०७ जूनमासः (हि.स.)। राजधानी-शिमला-नगरं उच्चभागैः सह संयोजयन्ती महत्त्वपूर्णा ढली-नारकण्डा-रामपुर-पथः चतुष्पथ-राजमार्गरूपेण विकसितुं महती प्रगति: अभवत्। मुख्यमन्त्री सुखविन्दर-सिंह-सुक्खुः रविवासरे उक्तवान् यत् अस्य महत्त्वाकाङ्क्षिणः परियोजनायाः सर्वेक्षणकार्यं पूर्णं जातम्, तथा च अस्य निर्माणे सुरङ्गानां प्राधान्यं दास्यते, येन भू-स्खलनसमस्या न्यूनीकृता भवेत् तथा च जनानां कृते सुरक्षिता सुगमा च यातायात-व्यवस्था उपलब्धा भवेत्।

शिमला-जनपदे प्रसिद्धे हाटू-माता-मन्दिरे रविवासरे पूजार्चनानन्तरं पत्रकारैः सह संवादं कुर्वन् मुख्यमन्त्री उक्तवान् यत् प्रदेशसर्वकारः मार्ग-संयोजनस्य तथा पर्यटन-संरचनायाः सुदृढीकरणाय निरन्तरं कार्यं कुर्वन् अस्ति। सः अवदत् यत् ढलीतः रामपुरपर्यन्तं प्रस्ताविता चतुष्पथ-परियोजना क्षेत्रस्य आर्थिक-पर्यटन-विकासे महत्त्वपूर्णां भूमिकां निर्वहिष्यति। मुख्यमन्त्रीमतानुसारं परियोजनायाः अभिकल्पने एतादृशानि प्रावधानानि क्रियन्ते येन पर्वतीय-प्रदेशेषु भू-स्खलनजनिता: न्यूनीकर्तुं शक्यन्ते तथा यात्रा अधिका सुरक्षिता भवेत्।

मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः धार्मिक-पर्यटनस्य प्रोत्साहनाय हाटू-माता-रोपवे-परियोजनाम् अपि अग्रे नयति। एषा परियोजना नाबार्ड-अन्तर्गतं प्रस्ताविता अस्ति तथा च तस्याः कार्यान्वयने त्रि-चतुर्वर्षाणां कालः अपेक्षितः।

सः अवदत् यत् सर्वकारः अस्य परियोजनायाः प्राथमिकतया क्रियान्वयनाय प्रतिबद्धः अस्ति। ततः परं हाटू-माता-पथस्य सुधाराय धनराशिः स्वीकृता अस्ति तथा कार्यकाले वृक्षच्छेदनं न्यूनतमं कर्तुं विशेषं ध्यानं दास्यते, येन पर्यावरणसंरक्षणस्य विकासस्य च मध्ये सम्यक् संतुलनं स्थापयितुं शक्येत।

अस्मिन् अवसरे मुख्यमन्त्री नारकण्डा-नगरपञ्चायतस्य निर्विरोधनिर्वाचितेभ्यः ५० लक्ष-रुप्यकाणां प्रोत्साहनराशिं दातुं घोषणाम् अपि कृतवान्। नारकण्डायां नवनिर्वाचिताः पंचायतीराज-प्रतिनिधयः मुख्यमन्त्रिणः सम्मानं कृतवन्तः। सः क्षेत्रे वृक्षारोपणं कृत्वा पर्यावरणसंरक्षणस्य सन्देशं अपि अयच्छत्।

Hindusthan Samachar / Divya Ranjan