Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 07 जूनमासः (हि.स.)।
दिल्लीशासनं यमुनानद्याः गौरवं पुनः प्रत्यर्पयितुं, नद्याः तटान् स्वच्छान् कर्तुं तथा पर्यावरणसंरक्षणस्य विषये नागरिकान् जागरूकान् कर्तुम् उद्दिश्य चतुर्दशजूनदिनाङ्के यमुनातटस्वच्छताअभियानस्य आयोजनं करिष्यति। अस्मिन् अभियाने मुख्यमन्त्री रेखा गुप्ता स्वयम् सहभागिनी भविष्यति।
मुख्यमन्त्री रविवासरे विज्ञप्तिं निर्गत्य उक्तवती यत् यमुना केवलं नदी नास्ति अपितु दिल्लीनगरेः सांस्कृतिकधार्मिकपर्यावरणीयधरोहरापि अस्ति। यमुनायाः संरक्षणस्य दायित्वं शासनस्य सह प्रत्येकस्य नागरिकस्य अपि अस्ति। एतां भावनां जनजनपर्यन्तं प्रसारयितुं तथा सामूहिकसहभागितां प्रोत्साहयितुं च एतद् व्यापकं अभियानम् आयोजितं क्रियते। चतुर्दशजूनदिनाङ्के यमुनानदीतटस्य प्रमुखघाटेषु एककालेन स्वच्छताकार्यक्रमाः जनजागरूकतासम्बद्धक्रियाकलापाश्च सञ्चालिताः भविष्यन्ति। अभियाने प्रायः पञ्चशतानि सामाजिकधार्मिकशैक्षणिकस्वयंसेवीसङ्घटनानि सहस्रशः स्वयंसेवकाः च सहभागिनः भविष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani