Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, ०७ जूनमासः (हि.स.)। भारतीय-जनता-पक्षस्य वरिष्ठ-नेता दिलीप-घोषः रविवासरे ‘सण्डे ऑन सायकिल’ कार्यक्रमे सहभागित्वा जनान् द्विचक्रिका-चालनाय स्वस्थ-जीवनशैल्याः अवलम्बनाय च आह्वानम् अकरोत्।
दिलीप-घोषः उक्तवान् यत् सायकिलः सन्तुलनस्य अनुशासनस्य च प्रतीकः अस्ति। एतदेव उद्दिश्य देशव्यापि ‘सण्डे ऑन सायकिल’ कार्यक्रमः आयोज्यते। सः अवदत् यत् रविवासरस्य प्रातःकाले न्यूटाउन-स्थितात् इस्कॉन-मन्दिरात् इको-पार्क-पर्यन्तम् आयोजितायां सायकिल-यात्रायां सः सहभागित्वम् अकरोत्।
सः उक्तवान् यत् स्वच्छ-ग्रामाणां, सुरक्षित-जलवायोः, स्वस्थ-समाजस्य च निर्माणस्य लक्ष्येण देशस्य विविधेषु भागेषु एषा द्विचक्रिका-यात्रा आयोजिता। सायकिलः न केवलं पर्यावरण-संरक्षणे सहायकः अस्ति, अपितु शरीरस्य स्वास्थ्य-रक्षणे स्वस्थतायाः संवर्धने च प्रभावी साधनम् अपि अस्ति।
दिलीप-घोषः जनान् अस्मिन् उपक्रमे सम्मिलितुं प्रार्थयन् उक्तवान् यत् नियमित-द्विचक्रिका-चालनेन प्रदूषणस्य न्यूनीकरणं भवति, स्वास्थ्य-लाभाश्च प्राप्यन्ते। सः उक्तवान्— “द्विचक्रिकां चालयन्तु, स्वस्थाः तिष्ठन्तु, पर्यावरण-संरक्षणे च स्वकीयं योगदानं ददतु।”
Hindusthan Samachar / Divya Ranjan