केंद्रं झारखंडस्य महिलाकृषकोत्पादकसमूहस्य 1.5 मीट्रिक टनमितानि आम्रपालीत्येतानि आम्रफलानि यूकेदेशाय प्रेषितानि
नवदिल्ली, 07 जूनमासः (हि.स.)। केन्द्रसर्वकारेण झारखण्डराज्यस्य सिमडेगाजनपदे महिलाभिः सञ्चालितायाः कृषकोत्पादकसंस्थायाः आम्रपालीत्येषाम्आम्रफलानां प्रथमः वाणिज्यिकनिर्यातप्रेषणः संयुक्तराज्यम् प्रेषितः अस्ति। केन्द्रीयवाणिज्यउद्योगमन्त्रालयस्य अध
झारखंड के सिमडेगा जिले की महिला किसान उत्पादक कंपनी द्वारा उत्पादित 1.5 मीट्रिक टन आम्रपाली आमों की पहली वाणिज्यिक खेप को यूनाइटेड किंगडम के लिए रवाना करते अधिकारी।


नवदिल्ली, 07 जूनमासः (हि.स.)।

केन्द्रसर्वकारेण झारखण्डराज्यस्य सिमडेगाजनपदे महिलाभिः सञ्चालितायाः कृषकोत्पादकसंस्थायाः आम्रपालीत्येषाम्आम्रफलानां प्रथमः वाणिज्यिकनिर्यातप्रेषणः संयुक्तराज्यम् प्रेषितः अस्ति।

केन्द्रीयवाणिज्यउद्योगमन्त्रालयस्य अधीनस्थेन कृषि प्रसंस्कृतखाद्यपदार्थनिर्यातविकासप्राधिकरणेन प्रेरितया योजनया सार्धमेट्रिकटनपरिमितानि आम्रपालीआमफलानि लन्दननगरं प्रति निर्यातितानि, येन महिलाकृषकाणाम् अन्तरराष्ट्रीयविपण्यां प्रवेशः सुलभः अभवत्। आमफलानाम् एषा प्रथमा खेप चतुर्थजूनदिने कोलकातानगरात् प्रेषिता। अस्यां खेपायां समाविष्टानि आमफलानि सिमडेगाजनपदस्य बानोविकासखण्डस्थितायाः महिलाभिः सञ्चालितायाः बेउराकृषकोत्पादककम्पनीलिमिटेड इत्यस्मात् गृहीतानि।

मन्त्रालयेन उक्तं यत् एपीडा संस्थया पञ्चममेदिनाङ्के सिमडेगाजनपदस्य कृषकोत्पादकसङ्गठनानां, कृषकोत्पादककम्पनीनां तथा प्रगतिशीलकृषकाणां कृते निर्याताभिमुखक्षमतानिर्माणकार्यक्रमः आयोजितः आसीत्। अस्मिन् कार्यक्रमे निर्यातमानकानां, गुणवत्ताआवश्यकतानां तथा वैश्विकविपण्याः सम्भावनानां विषये सूचना प्रदत्ता। ततः परं एपीडा संस्थया बेउराकृषकोत्पादककम्पनी तथा निर्यातककम्पनी इत्येतयोः मध्ये सम्पर्कः स्थापितः तथा निर्यातयोग्यगुणवत्तायुक्तानाम् आमफलानां क्रयः सुनिश्चितीकृतः।

अनेन कृषकोत्पादककम्पनी प्रत्यक्षतया निर्यातमूल्यशृङ्खलायाः भागः अभवत्। अस्यां संस्थायां सम्बद्धैः कृषकैः देशीयविपण्याः अपेक्षया श्रेष्ठं मूल्यं प्राप्तम्। मन्त्रालयस्य अनुसारम् एतत् पादक्षेपं क्षेत्रे गुणवत्ताधारितोत्पादनम्, श्रेष्ठफसलोत्तरप्रबन्धनम् तथा अन्तरराष्ट्रीयमानकानाम् अनुपालनं प्रोत्साहयिष्यति।

वाणिज्यउद्योगमन्त्री पीयूषगोयलः सामाजिकमाध्यममञ्चे एक्स इत्यत्र एतत् स्थानीयोत्पादनस्य वैश्विकीकरणस्य सशक्तम् उदाहरणम् इति उक्तवान्। तेन कथितं यत् झारखण्डस्य सिमडेगाजनपदस्य महिलाकृषकोत्पादककम्पन्या उत्पादितानि आम्रपालीआमफलानि अधुना संयुक्तराज्यं प्रति गच्छन्ति। एपीडा संस्थायाः निरन्तरप्रयत्नैः कृषकेभ्यः श्रेष्ठं मूल्यं, महिलाभ्यः नूतना परिचितिः तथा भारतस्य कृषिनिर्याताय नूतना गतिः प्राप्यते।

मन्त्रालयस्य अनुसारं झारखण्डस्य कृषि जलवायुपरिस्थितयः उद्यानिकीफसलानां कृते अनुकूलाः सन्ति। राज्ये उत्पादितानि आम्रपालीआमफलानि स्वगुणवत्तया विपण्यां स्वीकृत्या च प्रसिद्धानि सन्ति। अनेन निर्यातप्रेषणेन सह झारखण्डराज्यम् अपि तेषां राज्याणां सूच्यां समाविष्टम् अभवत्, येभ्यः ताजाफलानि अन्तरराष्ट्रियविपण्येषु निर्यात्यन्ते।

एपीडा संस्था कृषि तथा प्रसंस्कृतखाद्यपदार्थानां निर्यातप्रवर्धनार्थं विपण्याविकासेन, क्षमतानिर्माणेन, गुणवत्तासुधारेण, अनुरेखणप्रणाल्या तथा निर्यातप्रोत्साहनक्रियाभिः साहाय्यं प्रददाति। सहैव महिलाकृषकसमूहान् जनजातीयकृषकसमूहांश्च वैश्विकविपण्याभिः सह सम्बद्धान् कर्तुं विशेषध्यानम् अपि दीयते।

---------------

Hindusthan Samachar / Dheeraj Maithani