उपराज्यपालः मनोजसिन्हा-महोदयः लेफ्टिनेन्ट-वीरेश्वर-गोस्वामी-महोदयाय श्रद्धाञ्जलिं अर्पितवान्
जम्मूनगरम्, ०७ जूनमासः (हि.स.)। उपराज्यपालः मनोजसिन्हा-महोदयः राजौरी-प्रदेशे दुर्गमे भूभागे प्रतिकूले च कालवातावरणे आतंकवाद-निरोधि-अभियानस्य निरीक्षण-कार्यक्रमस्य समये सर्वोच्चं बलिदानं कृत्वा वीरगति-प्राप्तवते लेफ्टिनेन्ट-बीरेश्वर-गोस्वामी-महोदयाय
उपराज्यपाल मनोज सिन्हा ने लेफ्टिनेंट बीरेश्वर गोस्वामी को पुष्पांजलि अर्पित कर दी श्रद्धांजलि


जम्मूनगरम्, ०७ जूनमासः (हि.स.)। उपराज्यपालः मनोजसिन्हा-महोदयः राजौरी-प्रदेशे दुर्गमे भूभागे प्रतिकूले च कालवातावरणे आतंकवाद-निरोधि-अभियानस्य निरीक्षण-कार्यक्रमस्य समये सर्वोच्चं बलिदानं कृत्वा वीरगति-प्राप्तवते लेफ्टिनेन्ट-बीरेश्वर-गोस्वामी-महोदयाय पुष्पाञ्जलिं समर्प्य श्रद्धाञ्जलिं अर्पितवान्।

उपराज्यपालः स्वस्य ‘एक्स’-सन्देशे उक्तवान् यत्— “वयं स्ववीर-सैन्य-अधिकारिणे लेफ्टिनेन्ट-बीरेश्वर-गोस्वामी-महोदयातशय पुष्पाञ्जलिं अर्पयित्वा श्रद्धाञ्जलिं दत्तवन्तः। देशः तस्य कर्तव्य-निष्ठायाः सर्वोच्च-बलिदानस्य च सदा ऋणी भविष्यति। अस्मिन् कठिन-क्षणे वयं बलिदानिन: परिवारेण सह दृढतया स्थिताः स्मः।”

राजौरी-जनपदस्य मंजाकोट-तहसीलान्तर्गत-डोरीमाल-वनक्षेत्रे प्रचलितस्य निरीक्षण-अभियानस्य समये शनिवासरे एषा दुःखदा घटना अभवत्। डोरीमाल-वनप्रदेशे पूर्वेभ्यः कतिपय-दिनात् भारतीय-सेना-जम्मू-कश्मीर-राज्य-प्रहरिणः अन्य-सुरक्षा-संस्थाभिः सह संयुक्तं निरीक्षण-अभियानं प्रचलति स्म। सुरक्षा-बलानि क्षेत्रे सम्भाव्य-आतंकी-गतिविधीनां दृष्ट्या व्यापकं निरीक्षण-अभियानं कुर्वन्ति स्म।

कप्तान-बीरेश्वर-गोस्वामी-महोदयः अपि अस्मिन् अभियाने भागं गृहीत्वा स्वदलसहितं क्षेत्रे सज्जितः आसीत्। अभियानकाले आकस्मिकतया तस्य स्वास्थ्यं कस्यचित् कारणात् अवनतम्। तत्क्षणमेव सहायक-सैनिकैः तस्मै चिकित्सकीय-सहायता प्रदत्ता, उपचाराय च नीतः, किन्तु तस्य स्थितिः गंभीरैव स्थिता, पश्चात् तस्य निधनम् अभवत्।

Hindusthan Samachar / Divya Ranjan