Enter your Email Address to subscribe to our newsletters

नवदेहली, ०७ जूनमास: (हि.स.)। भारतदेश: विश्वे न्यूनतम-मूल्ये पाकवाति-प्राप्तकर्तृ-देशेषु अन्यतमः अस्ति इति केन्द्रसर्वकारेण प्रतिपादितम्। प्रधानमन्त्री-उज्ज्वला-योजनायाः (पीएमयूवाई) अन्तर्गतं लाभार्थिनः १४.२ किलोग्राम-परिमितं एलपीजी-अनीलकोषं प्रभावी-मूल्येन ६४२ रुप्यकाणि प्राप्तवन्ति इति सर्वकारेण उक्तम्। दिल्लीनगरे सामान्य-उपभोक्तारः ९४२ रुप्यकाणि दत्त्वा अनीलकोषं क्रीणन्ति, किन्तु वर्तमान-अन्ताराष्ट्रिय-परिस्थितौ एकस्य अनीलकोषस्य आपूर्ति-व्यय: १,६०० रुप्यकाणि अधिक: अभवत्।
पेट्रोलियम-प्राकृतिक-वाति-मन्त्रालयेन रविवासरे उक्तं यत् उज्ज्वला-योजनायाः लाभार्थिभ्यः प्रति-अनीलकोषं ३०० रुप्यकाणां प्रत्यक्ष-लाभ-अन्तरण (डीबीटी) सहायता प्रथम-चतुर्षु पुन:पूरण-पर्यन्तं प्रदीयते। अस्य परिणामतः ते वार्षिकरूपेण १,२०० रुप्यकाणां सहाय्यं प्राप्नुवन्ति। अ-उज्ज्वला-उपभोक्तारः अपि विपण-आधारित-व्ययापेक्षया प्रायः ७०० रुप्यकाणि न्यून-मूल्येन अनीलकोषं प्राप्नुवन्ति।
मन्त्रालयेन उक्तं यत् भारतस्य उज्ज्वला-लाभार्थिनां कृते प्रभावी-एलपीजी-मूल्यं ६४२ रुप्यकाणि अस्ति, यदा पाकिस्तान-देशे समान-परिमाणस्य अनीलकोष: १,०४६ रुप्यकाणि, नेपाल-देशे १,२०७ रुप्यकाणि, बङ्गलादेशे प्रायः १,२२५ रुप्यकाणि, श्रीलङ्कायां १,२४१ रुप्यकाणि च अस्ति। अमेरिका-देशे अस्य मूल्यं प्रायः १,७५५ रुप्यकाणि, ऑस्ट्रेलिया-देशे १,७६५ रुप्यकाणि, कनाडा-देशे च २,४११ रुप्यकाणां तुल्यम् अस्ति।
मन्त्रालयेन उक्तं यत् भारतदेश: स्वस्य एलपीजी-आवश्यकतायाः बहु-अंशं आयात-मार्गेण पूरयति तथा अन्ताराष्ट्रीय-विपणे सऊदी-कॉन्ट्रैक्ट-प्राइस (सीपी) इत्यस्य आधारं मूल्यनिर्धारणं भवति। फेब्रुवरी-मासे एलपीजी-सीपी ५४२.५० अमेरिकी-डॉलर प्रति टन आसीत्, यत् जून २०२६ पर्यन्तं वर्धित्वा ७९० डॉलर प्रति टन अभवत्—अर्थात् अस्मिन् काले प्रायः ४६ प्रतिशत-वृद्धिः जाता।
मन्त्रालयेन उक्तं यत् पश्चिम-एशिया-क्षेत्रे युद्धस्य तथा होर्मुज-जलडमरूमध्य-व्यवधानस्य भारतदेश: स्वस्य ऊर्जा-आपूर्ति-शृङ्खलां सुरक्षितां कृतवान्। देशे किमपि पेट्रोलियम-उत्पादस्य अभावः न जातः तथा एलपीजी-पूरण-वितरणं नियमितरूपेण प्रचलितम् अस्ति।
गृह-एलपीजी-लागतस्य वृद्धेः सम्पूर्णः भारः उपभोक्तॄणां उपरि न निहितः। सार्वजनिक-क्षेत्रस्य तेल-विपणन-निर्माण्य: तथा केन्द्रसर्वकारः लागत-खुदरा-मूल्ययोः अन्तरं वहन्ति। वित्त-वर्ष २०२५-२६ अन्ते गृह-एलपीजी-उपरि संचयी-अण्डर-रिकवरी इति प्रायः ६०,००० कोटि-रुप्यकाणि यावत् प्राप्ता, यदा पूर्ववर्षे सा ४१,३३८ कोटि-रुप्यकाणि आसीत्। अस्मिन् विषये केन्द्रसर्वकारेण तेल-विपणन-निर्माणी: प्रति ३०,००० कोटि-रुप्यकाणां क्षतिपूर्तिः अनुमोदिता।
मन्त्रालयेन उक्तं यत् प्रधानमन्त्री-उज्ज्वला-योजनायाः अन्तर्गतं अधुना यावत् १०.५८ कोटि-तः अधिक-वाति-नियुक्तानि प्रदत्तानि सन्ति।
हिन्दुस्थान समाचार / Divya Ranjan