Enter your Email Address to subscribe to our newsletters

- उज्जैनस्य ग्रामे टंकारिया पंथ इत्यस्मिन् सम्पन्ना 7 दिवसीया श्रीमद्भागवत कथा, मुख्यमंत्री कथा समापन समारोहं संबोधितवान्
भोपालम्, 07 जूनमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमन्त्री डॉ मोहन यादवः उक्तवान् यत् श्रीमद्भागवतकथायाः पुण्यप्रतापः तादृशः अस्ति यत् तस्याः श्रवणमात्रेण एव मनुष्यस्य दुःखवेदनाः दूरं भवन्ति।
मुख्यमन्त्री डॉ यादवो रविवासरे उज्जयिनीजिलायाः टङ्कारियापन्थग्रामे एकतः सप्तमदिनाङ्कपर्यन्तं सम्पन्नायाः श्रीमद्भागवतकथायाः समापनसमारोहे मुख्यमन्त्रिनिवासस्थितात् समत्वभवनात् दूरदृश्यसम्मेलनमाध्यमेन सहभागित्वा सम्बोधनं कुर्वन् आसीत्। सः अवदत् यत् भागवतकथाश्रवणेन कष्टानां शमनं भवति तथा च समग्रस्य संसारस्य कल्याणं भवति। अस्याः कथायाः श्रवणं मनुष्यस्य आध्यात्मिकोन्नत्यामपि सहायकं भवति।
मुख्यमन्त्री अवदत् यत् भारतीयसंस्कृतौ एतादृशानां धार्मिकानामायोजनानां विशेषं महत्त्वम् अस्ति। एतानि समाजाय सकारात्मकां दिशां प्रददति तथा सर्वेषां जीवने सद्भावस्य आत्मिकशान्तेश्च सञ्चारं कुर्वन्ति। सः अवदत् यत् श्रीमद्भागवतकथा मानवजीवनं धर्मस्य मर्म तथा नैतिकतायाः बोधं कारयति। एषा मनुष्यं स्वकर्तव्येषु तथा मानवसेवामार्गे चलितुं प्रेरयन्ती दिव्या ज्ञानामृतधारा अस्ति। भगवान् श्रीकृष्णस्य आदर्शानां तस्य सन्देशानां च जनजनपर्यन्तं प्रसारणे भागवतगीताकथा पवित्रं माध्यमम् अस्ति।
मुख्यमन्त्री डॉ यादव अवदत् यत् भगवानः श्रीकृष्णस्य जीवने नानाप्रकाराणि कष्टानि आसन् किन्तु सः स्वकष्टेभ्यः पृथक् कृत्वा कुशासनस्य कंसस्य अन्तम् अकरोत्। सः सदा धर्ममार्गे एव स्थितवान्। सः समारोहे बहुसंख्यया उपस्थितान् श्रद्धालून् प्रति उक्तवान् यत् ते गीता सन्देशं स्वजीवने अपि धारयेयुः।
यत्र यत्र कृष्णलीलाः अभवन् तत्र तत्र भव्यं श्रीकृष्णतीर्थं निर्मास्यति शासनम्
मुख्यमन्त्री अवदत् यत् यत्र यत्र भगवान् श्रीकृष्णः लीलाः अकरोत् तत्र तत्र अस्माकं शासनं भव्यं श्रीकृष्णतीर्थं निर्मातुं गच्छति। सः अवदत् यत् उज्जयिनीजिलायाः नारायणाग्रामे तथा धारजिलायाः अङ्का झङ्का माताजी परिसरे भव्यं श्रीकृष्णतीर्थं निर्मीयते। ग्रामवासिनां याचनानुसारं मुख्यमन्त्री डॉ यादव उक्तवान् यत् टङ्कारियापन्थग्रामात् लेपडपर्यन्तं तथा अस्मादेव ग्रामात् रानापुरफाटकपर्यन्तं दृढमार्गः निर्मीयते। अत्र धर्मशालायां छादननिर्माणार्थं धनराशिः तथा गोशालानिर्माणार्थम् अनुदानमपि प्रदास्यते। मुख्यमन्त्री भगिनीः सम्बोधयन् अवदत् यत् आगामिरक्षाबन्धनोत्सवे अपि अस्माकं शासनं लाडलीभगिनीभ्यः शुभोपहाररूपेण धनराशिं प्रेषयिष्यति। वृद्धजनान् प्रति उक्तवान् यत् सर्वान् पात्रान् जनान् अस्माकं शासनं तीर्थयात्रां कारयिष्यति।
मुख्यमन्त्री डॉ यादव अस्य कथायोजनस्य समाजे आध्यात्मिकजागृत्याः सांस्कृतिकमूल्यप्रसारस्य च महत्त्वपूर्णं माध्यमत्वं वर्णितवान्। सप्तदिवसीयभागवतकथायाः सफलायोजनार्थं मुख्यमन्त्री आयोजनसमितेः सर्वान् सदस्यान् सन्तजनान् श्रद्धालूंश्च अभिनन्दन् उक्तवान् यत् भवतां सामूहिकप्रयत्नैः क्षेत्रे सांस्कृतिकाध्यात्मिकचेतनायाः व्यापकः प्रसारः अभवत्। एतादृशानि आयोजनानि समाजे एकतां सद्भावं संस्कारांश्च सुदृढीकर्तुं सहायकानि भवन्ति।
अस्मिन् अवसरे प्रसिद्धः श्रीमद्भागवतकथावाचकः राकेश शर्मा शास्त्री, मनोहर चौधरी, लीलाधर पटेलः, जगदीश पटेलः, सुदामा पटेलः, सोहन पटेलः, कान्हा पटेलः इत्यादयः बहुसंख्याकाः ग्रामवासिनः उपस्थिताः आसन्। कथासमापने आयोजनसमित्या भण्डारस्य आयोजनमपि कृतम्।
---------------
Hindusthan Samachar / Dheeraj Maithani