,खेल मंत्री मनसुख मांडविया अखिलभारतीयविदयार्थिपरिसदः प्रस्तावं सहमतवान्, पंजाब विश्वविद्यालये निर्मास्यते ओलंपिकस्तरस्य कृत्रिम धावन-पंथाः
नवदिल्ली, 07 जूनमासः (हि.स.)। देशे क्रीडासंस्कृतेः संवर्धनाय तथा क्रीडकानां सुविधासु विस्ताराय सरकारेण महत् पदक्षेपं कृतम्। पञ्जाबविश्वविद्यालये दीर्घकालात् प्रवर्तमानां मागणीं पूरयन् केन्द्रीययुवकार्यक्रमक्रीडामन्त्री मनसुखमाण्डवीयः तत्र ओलम्पि
केंद्रीय मंत्री मनसुख के साथ अन्य लोग मौजूद।


नवदिल्ली, 07 जूनमासः (हि.स.)।

देशे क्रीडासंस्कृतेः संवर्धनाय तथा क्रीडकानां सुविधासु विस्ताराय सरकारेण महत् पदक्षेपं कृतम्। पञ्जाबविश्वविद्यालये दीर्घकालात् प्रवर्तमानां मागणीं पूरयन् केन्द्रीययुवकार्यक्रमक्रीडामन्त्री मनसुखमाण्डवीयः तत्र ओलम्पिकमानकयुक्तस्य कृत्रिमक्रीडापथस्य निर्माणं स्वीकृतवान्। आगामिषु द्वित्रमासेषु अस्य परियोजनायाः भूमिस्थकार्यस्य प्रारम्भः भविष्यति इति अपेक्षा अस्ति।

एषः निर्णयः अखिलभारतीयविद्यार्थीपरिषदः प्रतिनिधिमण्डलेन सह सम्पन्नायाः उच्चस्तरीयोपवेशनस्य अनन्तरम् आगतः। शनिवासरे सायंकाले अभाविपस्य राष्ट्रियमहामन्त्री डा. वीरेन्द्रसिंहसोलङ्की इत्यस्य नेतृत्वे एकं प्रतिनिधिमण्डलं क्रीडामन्त्रिणा सह समागत्य देशे क्रीडामूलसंरचनायाः सुदृढीकरणाय विस्तृतं ज्ञापनं समर्पितवति।

अखिलभारतीयविद्यार्थिपरिसदा वर्षे २०३६ तमे भारतस्य सम्भावितायाः ओलम्पिकमेजबानतायाः सिद्धताभ्यः आरभ्य ग्रामीणप्रतिभानां विकासाय बहवः प्रस्तावाः प्रस्तुताः, येषु क्रीडामन्त्रिणा सकारात्मकः दृष्टिकोणः स्वीकृतः।

एतेषु ओलम्पिकसिद्धतार्थम् अद्यैव सुदृढस्य राष्ट्रियसंरचनातन्त्रस्य विकासस्य मागणी, प्रत्येकस्मिन् राज्ये क्रीडाविश्वविद्यालयानां स्थापना, प्रत्येकस्मिन् जनेपदे क्रीडोत्कृष्टताकेन्द्राणां तथा बहुक्रीडासङ्कुलानां निर्माणम्, देशस्य दूरस्थेभ्यः जनजातीयक्षेत्रेभ्यश्च क्रीडाप्रतिभानां अन्वेषणार्थं विशेषाभियानम्, क्रीडकानां कृते स्वास्थ्यदुर्घटनाबीमायाः सुनिश्चितीकरणम्, राष्ट्रियडिजिटलक्रीडकपोर्टलस्य निर्माणम् तथा माईभारतसेवकानां मानदेयस्य वर्धनम् इति विषयाः अन्तर्भवन्ति।

केन्द्रीयक्रीडामन्त्रिणा अभाविपेन ग्रामीणक्षेत्राणां कृते प्रस्तावितस्य स्पोर्ट्ससामग्रीबैङ्क इत्यस्य विचारस्य विशेषतया प्रशंसा कृता। तेन आश्वासनं दत्तं यत् अस्य योजनायाः विषये सरकारः शीघ्रमेव सकारात्मकानि पदक्षेपाणि करिष्यति, येन संसाधनाभावात् काचिदपि प्रतिभा पश्चात् न तिष्ठेत्।

राष्ट्रियमहामन्त्री अखिलभारतीयविद्यार्थिपरिषदो डा. वीरेन्द्रसिंहसोलङ्की उक्तवान् यत् भारतस्य युवाशक्तिः अस्माकं महान्तमा पूंजी अस्ति। यदि एतेभ्यः आधुनिकक्रीडामूलसंरचना तथा वैज्ञानिकप्रशिक्षणं लभेत, तर्हि भारतं वैश्विकक्रीडामहाशक्तिरूपेण स्थापयितुं किमपि न निवारयितुं शक्नोति। क्रीडा केवलं पदकप्राप्त्यर्थं न, अपितु युवासु अनुशासनस्य राष्ट्रभावनायाश्च जागरणस्य माध्यमम् अस्ति।

केन्द्रीयमन्त्री मनसुखमाण्डवीयः प्रतिनिधिमण्डलं आश्वासितवान् यत् ज्ञापने उत्थापितेषु अधिकांशविषयेषु सरकारः पूर्वमेव कार्यं कुर्वती अस्ति, अवशिष्टानां प्रस्तावानामपि विषये गम्भीरतया विचारः क्रियते तथा शीघ्रमेव आवश्यकानि पदक्षेपाणि स्वीकृतानि भविष्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani