एनएफएचएस-6 फैक्टशीट इत्येषः बोधितः स्वास्थ्यपोषणपरिणामेषु जातः सुधारः
- मातृ एवं शिशु स्वास्थ्य सेवाओं की पहुंच देश के आम लोगों तक बढ़ी नवदिल्ली, 07 जूनमासः (हि.स.)।केन्द्रसर्वकारेण राष्ट्रियपरिवारस्वास्थ्यसर्वेक्षणस्य षष्ठसंस्करणस्य तथ्यपत्रिका प्रकाशित्य सूचितम् यत् देशस्य स्वास्थ्य, पोषण तथा जनसङ्ख्यासम्बद्धेषु अ
केंद्रीय स्वास्थ्य एवं परिवार कल्याण मंत्रालय


- मातृ एवं शिशु स्वास्थ्य सेवाओं की पहुंच देश के आम लोगों तक बढ़ी

नवदिल्ली, 07 जूनमासः (हि.स.)।केन्द्रसर्वकारेण राष्ट्रियपरिवारस्वास्थ्यसर्वेक्षणस्य षष्ठसंस्करणस्य तथ्यपत्रिका प्रकाशित्य सूचितम् यत् देशस्य स्वास्थ्य, पोषण तथा जनसङ्ख्यासम्बद्धेषु अनेकेषु आँकडेषु सुधारः अभवत्। मातृशिशुस्वास्थ्यसेवानां उपलब्धता देशस्य सामान्यजनानां समीपं वर्धिता अस्ति, टीकाकरणव्याप्तौ सुधारः अभवत्। प्रसवपूर्वपरिचर्यासेवानाम् उपयोगे वृद्धिः अभिलेखिता अस्ति तथा स्तनपानसम्बद्धेषु परिणामेषु अपि सकारात्मकप्रगतिः दृष्टिगोचरा अभवत्। सहैव वित्तीयसमावेशनम्, वृद्धजनसङ्ख्यायाः भागः तथा जनसङ्ख्यासंरचनासम्बद्धानि नवीनानि आँकडानि अपि प्रथमवारं तथ्यपत्रिकायां समावेशितानि सन्ति।

केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्रालयेन तथ्यपत्रिकायां देशस्य स्वास्थ्य, पोषण तथा जनसङ्ख्यासम्बद्धानां एकाधिकशतं प्रमुखसूचकानां स्थितिः प्रस्तुताऽस्ति। एनएफएचएस षष्ठसंस्करणे अनेकानि नवीनपरिणामानि अपि समावेशितानि सन्ति। तेषु जनसङ्ख्यासंरचना, वृद्धजनसङ्ख्यायाः अनुपातः, वित्तीयसमावेशनम्, प्रसवपूर्वपरिचर्यासेवानाम् उपयोगः, टीकाकरणव्याप्तिः, गम्भीरातिसारस्य व्यापकता तथा स्तनपानसम्बद्धाः विस्तारितसूचकाः समाविष्टाः सन्ति।

अधिकारिभिः स्पष्टतया उक्तं यत् परिवारनियोजनम्, बालस्वास्थ्यं, महिलास्वास्थ्यं तथा एचआईवीसम्बद्धाः अनेके विस्तृतपरिणामाः निष्कासिताः न सन्ति। ते आगामिन्यां राष्ट्रियप्रतिवेदने विस्तरेण प्रस्तुताः भविष्यन्ति। मन्त्रालयेन उक्तं यत् एनएफएचएस अद्यापि देशस्य बृहत्तमं सर्वाधिकव्यापकं च गृहस्वास्थ्यसर्वेक्षणम् अस्ति तथा प्रमाणाधारितनीतिनिर्माणे तस्य महत्त्वपूर्णा भूमिका निरन्तरं भविष्यति। स्वास्थ्यपरिवारकल्याणमन्त्रालयेन सूचितं यत् एषः केवलं प्रारम्भिकप्रकाशनचरणः अस्ति तथा विस्तृता राष्ट्रियप्रतिवेदनिका पश्चात् प्रकाशिता भविष्यति, यस्यां अधिकसूचकाः, विस्तृतविश्लेषणम् तथा कार्यपद्धतिसम्बद्धा सूचना समावेशिता भविष्यति।

मन्त्रालयेन कतिपयमाध्यमप्रतिवेदनेषु उत्थापितानां प्रश्नानां विषये प्रतिक्रिया प्रदत्ता। तेन उक्तं यत् ये सूचकाः तथ्यपत्रिकायां न समावेशिताः, तेषां बहवः पूर्वमेव विशेषराष्ट्रीयप्रणालीभिः नियमितरूपेण निरीक्षणे सन्ति। स्वच्छतायाः स्वच्छेन्धनप्रयोगस्य च प्रदत्तानि स्वच्छसर्वेक्षणग्रामीणकार्यक्रमात् तथा सांख्यिकीकार्यक्रमकार्यान्वयनमन्त्रालयस्य सर्वेक्षणेभ्यः उपलब्धानि सन्ति। तथैव मृत्युदरः, जन्मपञ्जीकरणम् तथा जनसङ्ख्यासम्बद्धानि अनेके आँकडानि नमूनापञ्जीकरणप्रणाल्या, नागरिकपञ्जीकरणप्रणाल्या तथा जनगणनाव्यवस्थया सङ्कलितानि भवन्ति।

अधिकारिभिः सूचितं यत् एनएफएचएस षष्ठसंस्करणे रक्ताल्पतायाः कृते हीमोग्लोबिनपरीक्षणं न कृतम्। अस्य कारणं पूर्वसर्वेक्षणेषु प्रयुक्तायाः केशिकीयरक्तनमूनासङ्ग्रहणपद्धतेः विषये उत्थापिताः संशयाः सन्ति। रक्ताल्पतासम्बद्धानि आँकडानि अधुना भारतीयायुर्विज्ञानअनुसन्धानपरिषदः आहारजैवसूचकसर्वेक्षणात् गृहीष्यन्ते, यस्मिन् अधिकसटीका इति मन्यमाना शिरारक्तनमूनासङ्ग्रहणप्रविधिः उपयुज्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani