विकसित भारते समाजस्य भविष्यति महती भूमिका : ओम बिरला
नवदिल्ली, 07 जूनमासः (हि.स.)। लोकसभाध्यक्षः ओमविरला रविवासरे उक्तवान् यत् भारतम् अद्य विश्वे अवसराणां महानतमभूमिरूपेण उदेति। विशालविपणिः, युवाशक्तिः तथा नवाचारस्य अपरिमिताः सम्भावनाः इत्येषां बलेन देशः विकसितभारत २०४७ इति लक्ष्यस्य दिशि तीव्रगत्
महेश्वरी इंटरनेशनल बिजनेस फाउंडेशन (एमआईबीएफ) की ओर से आयोजित ‘महेश्वरी और विकसित भारत-2047’  कार्यक्रम में लोकसभा अध्यक्ष ओम बिरला को सम्मानित करते एमआईबीएफ पदाधिकारी


महेश्वरी इंटरनेशनल बिजनेस फाउंडेशन (एमआईबीएफ) की ओर से आयोजित ‘महेश्वरी और विकसित भारत-2047’  कार्यक्रम में लोकसभा अध्यक्ष ओम बिरला को सम्मानित करते एमआईबीएफ पदाधिकारी


नवदिल्ली, 07 जूनमासः (हि.स.)।

लोकसभाध्यक्षः ओमविरला रविवासरे उक्तवान् यत् भारतम् अद्य विश्वे अवसराणां महानतमभूमिरूपेण उदेति। विशालविपणिः, युवाशक्तिः तथा नवाचारस्य अपरिमिताः सम्भावनाः इत्येषां बलेन देशः विकसितभारत २०४७ इति लक्ष्यस्य दिशि तीव्रगत्या अग्रे गच्छति। तेन उक्तं यत् सामाजिकसंगठनानि, उद्योगजगत्, वणिज्समुदायः तथा युवा उद्यमिनः सामूहिकप्रयत्नैः अस्य लक्ष्यस्य प्राप्तौ महत्त्वपूर्णां भूमिकां निर्वहितुं शक्नुवन्ति। समाजः यदि प्रगतिं करिष्यति तर्हि देशोऽपि प्रगतिं करिष्यति।

बिरलः अद्य माहेश्वरी इन्टरनेशनल बिजनेस फाउण्डेशनस्य आयोजनेन सम्पन्ने “माहेश्वरी तथा विकसितभारत २०४७” इति कार्यक्रमे सहभागी अभवत्। अस्मिन् कार्यक्रमे सर्वोच्चन्यायालयस्य न्यायाधीशः न्यायमूर्तिः जे के माहेश्वरी, भारतीयदूरसञ्चारविनियामकप्राधिकरणस्य अध्यक्षः सन्तोषकुमारलोहाटी, एम् आई बी एफ संस्थापकाध्यक्षः प्रशान्तमाहेश्वरी, दीपकमाहेश्वरी, उद्योगपतिः आनन्दराठी, पूर्वसांसदः श्यामजाजू इत्यादयः बहवः जनाः उपस्थिताः आसन्। अस्मिन् अवसरे लोकसभाध्यक्षस्य सम्मानः कृतः तथा प्रकाशपाण्डेयेन विरचितस्य कोठारीबन्धुभ्यां सम्बन्धितस्य ग्रन्थस्य लोकार्पणम् अपि अभवत्।

लोकसभाध्यक्षः उक्तवान् यत् देशस्य विकासे माहेश्वरीसमाजस्य गौरवशालिनी परम्परा, इतिहासः तथा योगदानं महत्त्वपूर्णम् अस्ति। अयं समाजः वाणिज्ये, उद्योगे, सेवाक्षेत्रे तथा सामाजिककार्येषु स्वस्य विशिष्टां परिचयं निर्मितवान्। समाजस्य प्रतिष्ठया एव व्यक्तेः प्रतिष्ठा वर्धते तथा समाजस्य संस्काराः एव व्यक्तिं प्रगतये प्रेरयन्ति।

तेन उक्तं यत् विकसितभारत २०४७ इति लक्ष्यं केवलं शासनानां प्रयत्नैः न पूर्णं भविष्यति, अपितु विविधसामाजिकसंगठनानां, वाणिज्यसंस्थानां तथा उद्यमिनां सामूहिकयोगदानेन एतत् साकारं कर्तुं शक्यते। समाजस्य विविधक्षेत्रेषु कार्यरताः जनाः एकस्मिन् मञ्चे समानीय विचारविमर्शेन, सहयोगेन तथा समन्वयेन नवीनानां सम्भावनानां निर्माणं कर्तुं शक्नुवन्ति।

बिरलः उक्तवान् यत् अद्य भारतस्य समीपे विश्वस्य महानतमासु विपणिषु अन्यतमा विपणिः अस्ति तथा अत्र वाणिज्याय, उद्योगाय, नवोद्यमसंस्थानां कृते, सेवाक्षेत्राय तथा नवाचाराय अपरिमिताः सम्भावनाः सन्ति। वाणिज्येन उद्योगेन च सम्बद्धाः जनाः केवलम् आर्थिकक्रियाकलापेषु सीमिताः न भवन्ति, अपितु ते लक्षशः जनानां कृते जीविकावसरान् अपि सृजन्ति।

माहेश्वरीसमाजस्य योगदानस्य उल्लेखं कुर्वन् तेन उक्तं यत् समाजेन देशस्य विविधेषु भागेषु कठिनपरिस्थितिषु अपि वाणिज्येन सेवया च विश्वासः स्थापितः। पूर्वोत्तरप्रदेशेषु सहितं देशस्य दूरवर्तिक्षेत्रेषु समाजस्य जनाः आर्थिकक्रियाकलापैः सह शिक्षा, स्वास्थ्यं तथा सामाजिककल्याणक्षेत्रेषु अपि उल्लेखनीयकार्याणि कृतवन्तः।

लोकसभाध्यक्षेण महात्मना गांधिना सह स्वतन्त्रतासङ्ग्रामे उद्योगजगतः भूमिकायाः अपि उल्लेखः कृतः। तेन उक्तं यत् आङ्ग्लशासनकाले अपि बिरला, टाटा तथा बजाज इत्यादीनि उद्योगिककुलानि देशस्य स्वतन्त्रतासङ्ग्रामे प्रत्यक्षतया परोक्षतया च महत्त्वपूर्णं योगदानं दत्तवन्ति। भारतीयोद्योगजगत् सर्वदा राष्ट्रियहितान् प्राधान्येन स्वीकृतवान् तथा संकटसमये देशस्य सह स्थितवान्।

बिरलः उक्तवान् यत् यदि आगामिसंततयः समाजेन, संस्कृत्या तथा सेवामूल्यैः सह न सम्बद्धाः भविष्यन्ति तर्हि गौरवशालिनीः परम्पराः अग्रे नेतुं कठिनं भविष्यति। तेन शिक्षां, नवाचारं तथा उद्यमितां सामाजिकपरिवर्तनस्य प्रभाविश्रेष्ठमाध्यमरूपेण वर्णयित्वा यूनां कृते नवीनानामवसराणां सृजनस्य आवश्यकतायां विशेषं बलं दत्तम्।

------------

Hindusthan Samachar / Dheeraj Maithani