Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 07 जूनमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्र मोदी रविवासरे मेजर अभिलाषा बराक महोदयायै संयुक्तराष्ट्र सैन्य लैंगिक समानता अधिवक्ता पुरस्कार २०२५ इति सम्मानस्य प्रदाने अभिनन्दनम् अकरोत्।
प्रधानमन्त्री मोदी एक्स माध्यमे उक्तवान्, संयुक्तराष्ट्र सैन्य लैंगिक समानता अधिवक्ता पुरस्कारेण सम्मानितायै मेजर अभिलाषा बराक महोदयायै हार्दिकम् अभिनन्दनम्। मेजर बराक लेबनानदेशे संयुक्तराष्ट्र अन्तरिमबलस्य उपवेशने एङ्गेज्मेण्ट टीम कमाण्डर तथा लैंगिक समानता केन्द्रबिन्दुरूपेण कार्यरतास्ति। एषः सम्मानः तस्याः अनुकरणीयसेवायाः तथा संयुक्तराष्ट्रस्य शान्तिस्थापनप्रयासेषु भारतस्य दीर्घकालिकयोगदानस्य मान्यता अस्ति। तस्याः एषा उपलब्धिः असंख्येभ्यः युवा भारतीयेभ्यः विशेषतः अस्माकं पुत्रीभ्यः प्रेरणास्रोतः अस्ति, ये राष्ट्रस्य मानवतायाश्च सेवां कर्तुम् आकाङ्क्षन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani