Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 07 जूनमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी रविवासरे एसएएफएफ महिला चैम्पियनशिप २०२६ स्पर्धायां विजयप्राप्त्यर्थं भारतीयमहिलापादकन्दुकदलस्य अभिनन्दनं कृतवान्। प्रधानमन्त्री उक्तवान् यत् दलेन सम्पूर्णस्पर्धाकाले उत्कृष्टं प्रदर्शनं कृतम्।
प्रधानमन्त्री मोदी एक्समाध्यमे लिखितवान्, “एसएएफएफ महिला चैम्पियनशिप २०२६ स्पर्धायां विजयप्राप्त्यर्थं भारतीयमहिलापादकन्दुकदलाय हार्दिकाभिनन्दनानि। ताभिः सम्पूर्णस्पर्धायां उत्कृष्टं प्रदर्शनं कृतम्। अनेन आगामिकाले अधिकाधिकाः युवानः पादकन्दुकक्रीडायां सहभागितायै प्रेरणां प्राप्स्यन्ति। दलस्य भविष्यकालीनप्रयत्नानां सफलतायै मम शुभकामनाः।”
---------------
Hindusthan Samachar / Dheeraj Maithani