श्री राम जन्मभूमि तीर्थ क्षेत्रसमितेः जायते आंतरिकलेखापरीक्षा, किञ्चन उल्लेखनीयं समक्षं न आयातम् : चंपत रायः
अयोध्या, 07 जूनमासः (हि.स.)। श्रीरामजन्मभूमितीर्थक्षेत्रसमितेर्महामन्त्री श्रीचम्पतरायः रविवासरे पत्रकारविज्ञप्त्या अवदत् यत् श्रीरामजन्मभूमितीर्थक्षेत्रट्रस्टस्य समये समये आन्तरिकलेखापरीक्षणं क्रियते। अस्मिन् कार्ये समितेः तथा भारतीयस्टेटवित्तको
ram mandir


अयोध्या, 07 जूनमासः (हि.स.)।

श्रीरामजन्मभूमितीर्थक्षेत्रसमितेर्महामन्त्री श्रीचम्पतरायः रविवासरे पत्रकारविज्ञप्त्या अवदत् यत् श्रीरामजन्मभूमितीर्थक्षेत्रट्रस्टस्य समये समये आन्तरिकलेखापरीक्षणं क्रियते। अस्मिन् कार्ये समितेः तथा भारतीयस्टेटवित्तकोषस्य प्रतिनिधयः सहभागं कुर्वन्ति, तथा च एतत् लेखापरीक्षणकार्यं बहुदिनपर्यन्तं प्रचलति।

सः अग्रे उक्तवान् यत् अधुना तत् एव लेखापरीक्षणकार्यं प्रचलति, किन्तु अद्यावधि किमपि उल्लेखनीयम् विषयं न प्रकाशमागतम्। समितेर्महामन्त्री चम्पतरायः अपि अवदत् यत् एषा सूचना सर्वेषां कृते प्रदीयते।

उल्लेखनीयम् अस्ति यत् समाजवादीपक्षस्य राष्ट्रियाध्यक्षः अखिलेशयादवो मन्दिरस्य दानकोषे अनियमिततायाः आरोपान् कृतवान् आसीत्। तथापि तेषाम् आरोपाणां समर्थनार्थं तस्य समीपे न पर्याप्ताः तथ्याः आसन्, न च काचन प्रमाणितपुष्टिः आसीत्। तथापि समाजवादीपक्षस्य नेतृणा एते गम्भीराः आरोपाः कृताः।

अधुना तु समितेर्महामन्त्री श्रीचम्पतरायः एतेषां आरोपाणां विषये प्रसृतं भ्रमं पूर्णतया निराकृतवान्। सः स्पष्टतया उक्तवान् यत् श्रीरामजन्मभूमितीर्थक्षेत्रसमितेः समये समये आन्तरिकलेखापरीक्षणं भवति। एतदेव न, अपितु अस्मिन् कार्ये ट्रस्टस्य प्रतिनिधिभिः सह भारतीयस्टेटवित्तकोषस्य अधिकारिणः अपि सहभागं कुर्वन्ति। अद्यावधि च अस्मिन् लेखापरीक्षणकार्ये कापि उल्लेखनीया अनियमितता न प्रकाशमागता।

---------------

Hindusthan Samachar / Dheeraj Maithani