Enter your Email Address to subscribe to our newsletters

सिलीगुड़ी, 07 जूनमासः (हि. स.)। राज्यस्य नगरविकास तथा महिला बालकल्याणमन्त्री अग्निमित्रा पाल उत्तरकन्यातः महतीं घोषणां कृत्वा उक्तवती यत् एकस्मात् सितम्बरमासात् आरभ्य मार्गेषु कुत्रापि कूर्परिक्षेपे तथा एकवारोपयोगिप्लास्टिकस्य उपयोगे दण्डः आरोपितः भविष्यति। नगरं स्वच्छं पर्यावरणानुकूलं च कर्तुं शासनं कठोरपदानि ग्रहीतुं सज्जम् अस्ति। रविवासरे उत्तरकन्यायां प्रशासनोपवेशनानन्तरं पत्रकारैः सह संवादं कुर्वती मन्त्री एतां घोषणाम् अकरोत्।
सा अवदत् यत् नियमभञ्जकेभ्यः विरुद्धं कठोरा कार्यवाही क्रियिष्यते। एतदतिरिक्तं उत्तरबङ्गस्य पञ्च नगराणि सिलीगुडी, दार्जिलिङ्ग, कर्सियाङ्ग, कालिम्पोङ्ग तथा मिरिक एतानि समाहृत्य हिमालयपर्वतीयनगरनाम्नी योजनां निर्मातुं कार्यं प्रचलति।
अस्याः परियोजनायाः अन्तर्गतं पर्यटनस्य, नागराधारसंरचनायाः, पर्यावरणसंरक्षणस्य तथा आधुनिकनागरिकसुविधानां विकासः क्रियिष्यते। उपवेशने विविधशासकीययोजनानां प्रगतिः, महिला बालकल्याणम्, जलनिर्गमनव्यवस्था, पेयजलव्यवस्था, कूर्परिव्यवस्थापनम् तथा अन्यासां नागरिकसेवानां समीक्षा कृता।
अस्मिन् उपवेशने दार्जिलिङ्गसांसदः राजू बिष्ट, जलपाईगुडीसांसदः जयन्त राय, विभिन्नजनपदानां विधायकाः तथा प्रशासकीयाधिकारिणः उपस्थिताः आसन्। मन्त्रिणी अधिकारिभ्यः आवश्यकान् निर्देशान् अपि प्रदत्तवती तथा उक्तवती यत् उत्तरबङ्गस्य विकासाय नूतना गतिः प्रदास्यते।
Hindusthan Samachar / Dheeraj Maithani