राज्य-शासनस्य ‘सण्डे ऑन साइकिल’ कार्यक्रमे मन्त्रिणा द्विचक्रिका-यानं चालितम्
हुगलीनगरम्, ०७ जूनमासः (हि.स.)। राज्य-शासनस्य ‘सण्डे ऑन साइकिल’ इति उपक्रमस्य अन्तर्गतं रविवासरे राज्यस्य विभिन्न-भागेषु यथा कार्यक्रमाः आयोजिताः, तथैव हुगली-जनपदस्य श्रीरामपुरेऽपि द्विचक्रिका-यात्रायाः आयोजनं कृतम्। श्रीरामपुर-महकमा-शासकस्य (एस.डी
साइकिल चलाते भास्कर भट्टाचार्य


हुगलीनगरम्, ०७ जूनमासः (हि.स.)। राज्य-शासनस्य ‘सण्डे ऑन साइकिल’ इति उपक्रमस्य अन्तर्गतं रविवासरे राज्यस्य विभिन्न-भागेषु यथा कार्यक्रमाः आयोजिताः, तथैव हुगली-जनपदस्य श्रीरामपुरेऽपि द्विचक्रिका-यात्रायाः आयोजनं कृतम्। श्रीरामपुर-महकमा-शासकस्य (एस.डी.ओ.) कार्यालयेन आयोजिते अस्मिन् कार्यक्रमे राज्यस्य प्रतिमन्त्री भास्कर-भट्टाचार्य-महोदयः स्वयमेव द्विचक्रिकां चालयन् जनान् स्वास्थ्य-संरक्षणस्य पर्यावरण-संरक्षणस्य च सन्देशम् अयच्छत्।

एस.डी.ओ.-कार्यालयस्य पुरतः ध्वज-प्रदर्शनेन द्विचक्रिका-यात्रायाः शुभारम्भः कृतः। ततः यात्रा नगरस्य विभिन्न-क्षेत्रेषु सञ्चरित्वा पुनः एस.डी.ओ.-कार्यालयम् आगत्य समाप्ता अभवत्।

अस्मिन् कार्यक्रमे प्रशासनिक-अधिकारीणः, स्थानीय-जनप्रतिनिधयः तथा बहुसंख्यकाः नागरिकाः सहभागिनः अभवन्। अस्य उपक्रमस्य उद्देश्यं जनान् द्विचक्रिका-प्रयोगं प्रति जागरूकान् कर्तुम्, स्वस्थ-जीवनशैल्याः संवर्धनं कर्तुम् तथा पर्यावरण-संरक्षणस्य सन्देशं प्रसारयितुं च अस्ति।

Hindusthan Samachar / Divya Ranjan