मोदी-सर्वकारस्य उपलब्धयः प्रबुद्ध-वर्गं यावत् प्रापयन्तु कार्यकर्तारः : पङ्कज-चौधरी
कानपुरनगरम्, ०७ जूनमासः (हि. स.)। मोदी-सर्वकारस्य द्वादश-वर्षाणि विकास-विश्वास-जनकल्याण-युक्तानि आसन्। एताः उपलब्धयः समाजस्य प्रबुद्ध-वर्गं यावत् प्रभावीरूपेण प्रापयितुं संघटनस्य प्राथमिकं दायित्वम् अस्ति। प्रबुद्ध-जन-संवाद-अभियानं च अधिकं व्यापकं
क्षेत्रीय अध्यक्ष प्रकाश पाल भाई को श्रद्धांजलि अर्पित करते पंकज चौधरी


कानपुरनगरम्, ०७ जूनमासः (हि. स.)। मोदी-सर्वकारस्य द्वादश-वर्षाणि विकास-विश्वास-जनकल्याण-युक्तानि आसन्। एताः उपलब्धयः समाजस्य प्रबुद्ध-वर्गं यावत् प्रभावीरूपेण प्रापयितुं संघटनस्य प्राथमिकं दायित्वम् अस्ति। प्रबुद्ध-जन-संवाद-अभियानं च अधिकं व्यापकं सशक्तं च करणीयम् — इति विचारः भारतीय-जनता-पक्षस्य प्रदेशाध्यक्षेन केन्द्र-वित्त-राज्यमन्त्रिणा पङ्कज-चौधरी-महोदयेन उक्तः।

कानपुर-नगरम् आगतः सः रविवासरे त्रि-दिवसीय-संघटनात्मक-प्रवासे आसीत्। तस्य आगमने जाजमऊ-पुल-प्रदेशे कार्यकर्तृभिः पुष्पवृष्ट्या भव्यं स्वागतं कृतम्।

नगरप्रवेशानन्तरं सः भाजपा-क्षेत्रीयाध्यक्षस्य प्रकाश-पालस्य- बर्रा-स्थितं गृहम् अगच्छत्, यत्र तेन तस्य भ्रातुः स्वर्गीय-श्रीराम-पालस्य चित्रे पुष्पार्पणं कृत्वा श्रद्धाञ्जलिः दत्ता तथा परिवारं प्रति संवेदना प्रकटिता।

ततः परं आयोजिते सभा-कार्यक्रमे सः केन्द्र-सर्वकारस्य उपलब्धीनां जन-जनपर्यन्तं प्रसारणाय बलं दत्तवान्। तेन उक्तं यत् संघटनस्य सुदृढतायै कार्यकर्तृभिः समाजस्य विभिन्न-वर्गैः सह सततं संवादः स्थापनीयः तथा च जनकल्याणकारी-योजनानां सूचना जनानां यावत् प्रापणीया।

कार्यक्रमानन्तरं प्रदेशाध्यक्षः कानपुरात् कानपुर-देहातं प्रति प्रस्थितः। तेन सह क्षेत्रीयाध्यक्षः प्रकाश-पालः तथा मीडिया-प्रभारी अनूप-अवस्थी च उपस्थितौ आस्ताम्। भाजपा-दलेन उक्तं यत् एषः त्रि-दिवसीयः प्रवासः संघटनात्मक-सभानां जनसंपर्क-अभियानानां समीक्षा-कार्यक्रमाणां च दृष्ट्या महत्त्वपूर्णः अस्ति, येन क्षेत्रे संघटनं अधिकं सुदृढं भविष्यति।

अस्मिन् अवसरे सांसदाः रमेश-अवस्थी, देवेंद्र-सिंह-भोले, पूनम-द्विवेदी, देवेंद्र-देव-गुप्ता, विधायकाः महेश-त्रिवेदी, सुरेन्द्र-मथानी, पूर्व-विधायकः के. के. सचानः सहिताः बहवः जनप्रतिनिधयः वरिष्ठ-नेतारश्च उपस्थिताः आसन्। तथा जनपदाध्यक्षः अनिल-दीक्षितः, शिवराम-सिंहः, उपेन्द्र-पासवानः, पूर्व-मन्त्री बालचन्द-मिश्रः, पूर्व-विधायकः रघुनन्दन-भदौरिया, अजय-कपूरः, पूर्व-जिलाध्यक्षः दीपु-पाण्डेयः, सुदेश-अवस्थी, बब्बन-शर्मा इत्यादयः अपि बहुसंख्यकाः पदाधिकारी-कार्यकर्तारः च प्रदेशाध्यक्षेन सह शिष्टाचार-साक्षात्कारं कृतवन्तः।

Hindusthan Samachar / Divya Ranjan