मुख्यमंत्री-अभ्युदययोजना - औरैया जनपदे उद्घटितङ्केद्रम् अभ्यर्थिभ्यःयाच्यन्ते आवेदनानि
- औरैयायां तिलक महाविद्यालये उद्घटितं केंद्रम्, 15 जून यावत् पूरयिष्यन्ते प्रपत्राणि औरैया, 07 जूनमासः (हि. स.)। उत्तरप्रदेशस्य औरैयाजनपदे प्रतियोगितापरीक्षाणां सिद्धतां कुर्वन्तः छात्राः छात्राश्च मुख्यमन्त्रीअभ्युदययोजनायाः अन्तर्गतं औरैयाजनपद
फोटो। प्रतीकात्मक फोटो


- औरैयायां तिलक महाविद्यालये उद्घटितं केंद्रम्, 15 जून यावत् पूरयिष्यन्ते प्रपत्राणि

औरैया, 07 जूनमासः (हि. स.)।

उत्तरप्रदेशस्य औरैयाजनपदे प्रतियोगितापरीक्षाणां सिद्धतां कुर्वन्तः छात्राः छात्राश्च मुख्यमन्त्रीअभ्युदययोजनायाः अन्तर्गतं औरैयाजनपदे केन्द्रं उद्घाटितम् अस्ति। निःशुल्कप्रशिक्षणार्थं १५ जून पर्यन्तम् आवेदनं कर्तुं शक्नुवन्ति। शैक्षणिकसत्रस्य २०२६–२७ वर्षस्य कृते प्रत्यक्षरूपेण जालमाध्यमेन च उभयविधम् आवेदनं स्वीकृतं भवति।

जिलासमाजकल्याणाधिकारी रविन्द्रकुमारशशिः अवदत् यत् छात्राः १५ जून २०२६ पर्यन्तं कस्मिन्नपि कार्यदिवसे प्रातः १० वादनात् सायं ०५ वादनपर्यन्तं तिलकमहाविद्यालये औरैयायां स्थापिते प्रशिक्षणकेन्द्रे गत्वा आवेदनपत्रं प्राप्तुं शक्नुवन्ति तथा तत्रैव समर्पयितुं शक्नुवन्ति। एतदतिरिक्तं छात्राः अभ्युदयपोर्टले गत्वा जालमाध्यमेन अपि आवेदनं कर्तुं शक्नुवन्ति।

पाठ्यक्रमाणां कृते पात्रता

सिविलसेवा तथा यूपीएसएसएससी परीक्षायै: अस्य कृते छात्रस्य स्नातकः भवितुम् अथवा स्नातकाध्ययनस्य अन्तिमवर्षे अध्ययनरतः भवितुम् आवश्यकम्।

एनडीए, बैङ्किङ्ग, एसएससी, रेलविभागः तथा यूपीपुलिसपरीक्षा: अस्य कृते सम्बद्धपरीक्षायाः नियमानुसारं शैक्षणिकयोग्यता अपेक्षिता।

नीट तथा जेईई परीक्षायै: विज्ञानवर्गात् एकादशद्वादशकक्षायां अध्ययनरताः अथवा उत्तीर्णाः छात्राः अस्य कृते पात्राः भविष्यन्ति।

प्रशासनस्य पक्षतः स्पष्टतया उक्तं यत् प्रशिक्षणकेन्द्रे कस्यापि पाठ्यक्रमस्य सञ्चालनार्थं न्यूनातिन्यूनं ३० छात्राणां उपस्थितिः अनिवार्या अस्ति। यदि परिणामप्रकाशनानन्तरं कस्यचित् पाठ्यक्रमस्य छात्रसंख्या ३० तः न्यूना भवति तर्हि तस्य पाठ्यक्रमस्य सञ्चालनं न भविष्यति।

कक्षाः १ जुलाई दिनाङ्कात् प्रारभ्यन्ते।

---------------

Hindusthan Samachar / Dheeraj Maithani