कृषि मंत्री सूर्य प्रताप शाही देवरियायामकरोत् पादपारोपणम्
देवरिया, 07 जूनमासः (हि. स. ) । उत्तरप्रदेशस्य कृषिमन्त्री सूर्यप्रतापशाही कार्यकर्तृभिः सह पर्यावरणसंरक्षणस्य तथा हरितविकासस्य संवर्धनस्य उद्देशेन रविवासरे ग्रामसभा पकहा स्थिते चतुर्भुजभगवतः मन्दिरपरिसरे आम्र पाकड पीपल वृक्षाणां रोपणं कृतवान्।
फोटोकृषि मंत्री पेड़ लगाते


देवरिया, 07 जूनमासः (हि. स. ) ।

उत्तरप्रदेशस्य कृषिमन्त्री सूर्यप्रतापशाही कार्यकर्तृभिः सह पर्यावरणसंरक्षणस्य तथा हरितविकासस्य संवर्धनस्य उद्देशेन रविवासरे ग्रामसभा पकहा स्थिते चतुर्भुजभगवतः मन्दिरपरिसरे आम्र पाकड पीपल वृक्षाणां रोपणं कृतवान्। जलवायुपरिवर्तनविभागस्य उपक्रमेण आयोजिते कार्यक्रमे कृषिमन्त्री स्थानीयजनप्रतिनिधिभिः कार्यकर्तृभिश्च सह मिलित्वा पादपान् आरोपितवान् तथा पर्यावरणसंरक्षणस्य प्रति सामूहिकदायित्वनिर्वहनस्य सन्देशं दत्तवान्।

अस्मिन् अवसरे नदीतटस्य हरितीकरणार्थं खनूआनद्याः तीरे अपि व्यापकस्तरे पादपारोपणं कृतम्। सहैव मन्दिरस्य समीपे नद्याः स्वच्छीकरणं कृत्वा स्वच्छतायाः पर्यावरणसंरक्षणस्य च संयुक्तप्रयत्नः अग्रे नीतः।

कार्यक्रमे भाजपामण्डलाध्यक्षः जिपूशाही तरकुलवाखण्डप्रमुखः रामाशीषगुप्तः नगरपञ्चायताध्यक्षः क्रान्तिसिंहः इत्यादयः बहवः जनप्रतिनिधयः सहभागितां कृतवन्तः। जिलापञ्चायतसदस्यः सुजीतप्रतापसिंहः भाजपाउपाध्यक्षः अजयशाही महिवालजायसवालः पिण्टूसरकारः दयानन्दशास्त्री च तथा बहुसंख्यकाः स्थानीयजनाः अपि उपस्थिताः आसन्।

--------------

Hindusthan Samachar / Dheeraj Maithani