Enter your Email Address to subscribe to our newsletters

फिरोजाबाद-जनपदः, ०७ जूनमासः (हि.स.)। उत्तरप्रदेश-सर्वकारस्य पर्यटन-संस्कृति-मन्त्री जयवीर-सिंह-महोदयः रविवासरे रजौरा-ग्रामे स्थितस्य सुप्रसिद्धस्य धार्मिक-स्थलस्य “श्री-स्वामी-गुदरिया-वाले-महाराज-आश्रमस्य” प्राङ्गणे १४६.९३ लक्ष-रुप्यक-मूल्यानां विकास-परियोजनानां विधिवत् शिलान्यासम् अकरोत्।
अस्मिन् अवसरे पर्यटन-मन्त्री जयवीर-सिंहः अवदत् यत् उत्तरप्रदेश-सर्वकारः राज्यस्य ऐतिहासिक-आध्यात्मिक-धार्मिक-स्थलेभ्यः वैश्विक-स्तरे परिचयं प्रदातुं तथा तत्र आधारभूत-सुविधानां सुदृढीकरणाय पूर्णतया प्रतिबद्धः अस्ति। एतस्याः श्रृङ्खलायाः अन्तर्गतं श्री-स्वामी-गुदरिया-वाले-महाराज-आश्रमस्य सर्वाङ्गीण-विकासाय आहत्य १४६.९३ लक्ष-रुप्यकाणां धनराशिः अनुमोदिता अस्ति।
अनेन विनियोजितेन निधिना आश्रम-परिसरे आगच्छद्भ्यः स्थानीय-तथा दूरस्थ-प्रदेशेभ्यः समागच्छद्भ्यः श्रद्धालुभ्यः आधुनिक-जनसुविधाः, उत्तमा उपवेशन-व्यवस्था, मार्ग-संयोजन-सुविधा, आकर्षका प्रकाश-व्यवस्था च विकसिताः भविष्यन्ति। तेन सम्पूर्णस्य परिसरस्य वातावरणं अधिकं सुगमं सुव्यवस्थितं च भविष्यति।
अस्मिन् अवसरे पर्यटन-मन्त्री गुदरिया-महाराजस्य मन्दिर-प्राङ्गणं गत्वा तेषां दर्शनं कृतवान् तथा विधिवत् पूजार्चनां च सम्पन्नवान्। कार्यक्रमे भारतीय-जनता-पक्षस्य जनपदाध्यक्षः उदय-प्रताप-सिंह-महोदयः, ब्लॉक-प्रमुखः कमलेश-राजपूत-महोदयः अन्ये च गणमान्याः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan