Enter your Email Address to subscribe to our newsletters


प्रयागराजः, 07 जूनमासः (हि.स.)।
अध्यात्म तथा विज्ञानं परस्परं पूरकौ स्तः, न तु विरोधिनौ। सनातनपरम्पराणां व्रतानां उत्सवानां पूजाविधानानां च यावत् आध्यात्मिकं महत्त्वम् अस्ति तावदेव तेषां वैज्ञानिकाधारोऽपि अस्ति। एतानि वचनानि रविवासरे विश्वहिन्दूपरिषदः काशीप्रान्तस्य परिषद्शिक्षावर्गे कार्यकर्तॄन् सम्बोधयन् केन्द्रीयसहमन्त्री सपनकुमार मुखर्जी उक्तवान्।
सः अवदत् यत् अद्य हिन्दूसमाजं तस्य मूलाधारेभ्यः विच्छेत्तुं प्रयासः क्रियते। विद्यालयेषु कलावस्य तिलकस्य च निषेधसम्बद्धाः घटनाः चिन्ताजनकाः सन्ति। सहिष्णुतायाः नाम्ना क्रियमाणं धर्मान्तरणं हिन्दूसमाजः न सहिष्यते। सः अवदत् यत् व्यक्तिगतचरित्रं कस्यचित् व्यक्तेः निष्ठात्वेन नैतिकमूल्यैः आचरणेन च प्रकटते, यदा तु राष्ट्रियचरित्रं समाजस्य सामूहिकचेतनया राष्ट्रभक्त्या नागरिककर्तव्यपालनेन च दृश्यते।
सपनकुमार मुखर्जी अवदत् यत् प्रत्येकः जनः स्वकीयस्वार्थात् उपरि उत्थाय राष्ट्रस्य धर्मस्य संस्कृतेश्च हिताय कार्यं कुर्यात्। नियमितम् अध्यात्मं ज्ञानं योगश्च मस्तिष्कस्य कार्यप्रणाल्यां सकारात्मकपरिवर्तनानि आनयन्ति। विज्ञानं यत्र भौतिकब्रह्माण्डस्य सत्यस्य अन्वेषणं करोति, तत्र अध्यात्मम् आत्मावलोकनेन चेतनया च सत्यप्राप्तेः मार्गं प्रशस्तं करोति।
सः अवदत् यत् अद्य समग्रे विश्वे सनातनसंस्कृतेः विषये जिज्ञासा वर्धते तथा जनाः तां ज्ञातुं प्रयतन्ते। एतादृशे समये कार्यकर्तॄणां दायित्वम् अस्ति यत् ते सनातनविचारान् सांस्कृतिकमूल्यानि च अधिकाधिकजनान् प्रति प्रापयन्तु।
कार्यक्रमे काशीप्रान्तसङ्गठनमन्त्री नितिन भारत अवदत् यत् सङ्गठनस्य उपवेशनानि चरित्रनिर्माणस्य, शारीरिकमानसिकानुशासनस्य, राष्ट्रभक्तेः तथा सामाजिकसमरसताभावस्य विकासस्य प्रभावी माध्यमानि सन्ति। सङ्गठितस्य सशक्तस्य च हिन्दूसमाजस्य निर्माणं विहिपस्य प्रमुखलक्ष्यम् अस्ति।
सः अवदत् यत् हिन्दूजीवनमूल्यानां संरक्षणम्, प्रवासीहिन्दून् स्वमूलैः सह सम्बद्धान् स्थापयितुम् तथा विभिन्नमतपन्थसम्प्रदायानां जनान् सामाजिकसमरसतायाः सूत्रे बन्धयितुं सङ्गठनस्य प्राथमिकतासु अन्तर्भवति। सेवाकार्यैः समाजस्य दुर्बलवर्गान् प्रति सम्पर्कस्थापनमपि कार्यकर्तॄणां महत्त्वपूर्णं दायित्वम् अस्ति।
नितिन भारत अवदत् यत् काशीप्रान्ते एकलविद्यालयाः, गोशालाः, सीवनकौशलप्रशिक्षणकेन्द्राणि, संस्कारशालाः, निःशुल्कचिकित्सासेवाः तथा नर्सिङ्गप्रशिक्षणम् इत्यादयः अनेके सेवाप्रकल्पाः सञ्चाल्यन्ते। विभिन्नासु बस्तिषु संस्कारशालानां माध्यमेन नूतनां संततिं भारतीयसंस्कृत्या संस्कारैश्च सह सम्बद्धां कर्तुं प्रयासः क्रियते। आदिवासीवनवासीक्षेत्रेषु धर्मान्तरणनिवारणार्थम् अपि सङ्गठनं निरन्तरं कार्यं करोति।
कार्यकर्तृप्रशिक्षणवर्गे क्षेत्रसत्सङ्गप्रमुखः दिवाकरनाथ त्रिपाठी, प्रान्तमन्त्री डॉ राजनारायण सिंह, प्रान्तसहमन्त्री प्रभृति कान्त, प्रान्तोपाध्यक्षः सुरेश अग्रवाल, मुख्यशिक्षकः बृजभूषण महेश सिंह, प्रान्तधर्माचार्यसम्पर्कप्रमुखः आद्याशङ्कर मिश्र, विभागसङ्गठनमन्त्री अंशुमान, शुभाङ्गी सिंह, डॉ दीपा यादव इत्यादयः बहुसंख्याकाः कार्यकर्तारः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani