Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, ०७ जूनमासः (हि.स.)। मुख्यमन्त्री-अनुसूचित-जाति-जनजाति-विद्यार्थी-उत्कर्ष-योजनायाः (पूर्वतन-जवाहर-उत्कर्ष-योजना) अन्तर्गतं वर्षे २०२६-२७ तमे षष्ठ-कक्षायां प्रवेशार्थं ०५ जुलै २०२६ तमे (रविवासरे) मध्याह्न-१२वादनात् अपराह्ण-२वादनपर्यन्तं लिखित-परीक्षा आयोज्यते। विद्यार्थिभिः आवेदनपत्राणि विद्यालयेषु समर्पयितुं २० जूनपर्यन्तम् आमन्त्रितानि सन्ति।
छत्तीसगढ-राज्यस्य अन्तर्गतं चयनितेषु उत्कृष्ट-निजी-विद्यालयेषु विद्यार्थिनः प्रवेशं प्राप्नुवन्ति, तथा च विद्यालयस्य सम्पूर्णं शुल्कं सर्वकारेण वह्यते। अस्याः योजनायाः अन्तर्गतं द्वादश-कक्षापर्यन्तं अध्ययनस्य सुविधा उपलब्धा भवति। निर्धारित-आवेदनपत्रेण विद्यार्थी आवेदनं कर्तुं शक्नुवन्ति।
विद्यार्थिभिः आवेदनपत्राणि विद्यालयेषु समर्पयितुं अन्तिमा तिथिः २० जून २०२६ (शनिवासरे) सायं ५वादनपर्यन्तं निर्धारिता अस्ति। विद्यालय-प्रमुखैः आवेदनपत्राणां परीक्षणं कृत्वा तानि विकासखण्ड-शिक्षा-अधिकारी-कार्यालयाय २२ जून २०२६ (सोमवासरे) प्रेषणीयानि।
विकासखण्ड-शिक्षा-अधिकारी-कार्यालयेन समस्त-आवेदनपत्राणां सूचीं निर्माय सहायक-आयुक्त-आदिवासी-विकास-कार्यालये कार्यालयीय-समये २४ जून २०२६ (बुधवासरे) पर्यन्तं समर्पणस्य अन्तिमा तिथिः निर्धारिता अस्ति।
Hindusthan Samachar / Divya Ranjan