महिलानां परिश्रमःसार्थकः, सर्षपतैलयूनिटद्वारा परिवर्तते ग्रामस्य चित्रम्
देहरादूनम्, 07 जूनमासः (हि.स.)। उत्तराखण्डस्य राजधानी देहरादूनजनपदस्य कालसीविकासखण्डस्य हरिपुरग्रामे महिलाभिः सञ्चालिता सर्षपतैलनिर्माणैककः ग्रामीणोद्यमितायाः महिलासशक्तीकरणस्य च सफलप्रतिमानरूपेण उद्भूतः अस्ति। ग्रामीणोद्यमवेगवृद्धिपरियोजनायाः अन्त
मशीन से तेल निकलती महिलाएं।


देहरादूनम्, 07 जूनमासः (हि.स.)। उत्तराखण्डस्य राजधानी देहरादूनजनपदस्य कालसीविकासखण्डस्य हरिपुरग्रामे महिलाभिः सञ्चालिता सर्षपतैलनिर्माणैककः ग्रामीणोद्यमितायाः महिलासशक्तीकरणस्य च सफलप्रतिमानरूपेण उद्भूतः अस्ति। ग्रामीणोद्यमवेगवृद्धिपरियोजनायाः अन्तर्गतं सितम्बरमासे २०२४ तमे वर्षे स्थापितः अयम् एककः शतशः महिलानां आर्थिकदृष्ट्या सुदृढीकरणे महत्त्वपूर्णां भूमिकां निर्वहति।

विकासमहिलाक्लस्टरलेवलफेडरेशनस्य पक्षतः दशलक्षरूप्यकव्ययेन स्थापिते अस्मिन् एकके कोल्डप्रेस्ड तथा हॉटप्रेस्ड प्रविधिभ्यां सर्षपतैलस्य उत्पादनं क्रियते। परियोजनासहायतया बैंकऋणेन महिलानाम् अंशदानेन च आरब्धा एषा योजना अद्य स्थानीयस्तरे रोजगारस्य आयस्य च स्थायीस्रोतः अभवत्।

फेडरेशनेन सम्बद्धाः चतुर्दश ग्रामसङ्गठनानि एकशतविंशति स्वसहायतासमूहाः चतुःषष्ट्यधिकसप्तशत महिलाश्च उत्पादनपैकेजिङ्गविपणनकार्येषु सक्रियभागीदारीं निर्वहन्ति। अस्मात् एककात् प्रतिमासं प्रायः सप्ततिसहस्ररूप्यकाणाम् आयः भवति यदा तु स्थापनात् आरभ्य अद्यावधि चतुर्विंशतिलक्षतः पञ्चविंशतिलक्षरूप्यकपरिमितमूल्यस्य सर्षपतैलस्य विक्रयः जातः अस्ति। एतदतिरिक्तं चतसृभ्यः पञ्चभ्यः महिलाभ्यः प्रत्यक्षरोजगारः अपि प्राप्तः अस्ति।

महिलाभिः निर्मितं सर्षपतैलं हिलान्स इति नाम्ना विपण्यां उपलब्धम् अस्ति। उत्पादस्य गुणवत्तायाः कारणेन तस्य मागः निरन्तरं वर्धते। हाउस आफ हिमालय संस्थया अस्मात् एककात् १७०० लीटरपरिमितस्य सर्षपतैलस्य क्रयः कृतः येन महिलाभ्यः पञ्चलक्षरूप्यकेभ्यः अधिका आयः प्राप्ता। अपरञ्च आईआईटी रुड़की संस्थानाय अपि अत्रतः नियमितरूपेण आपूर्तिः क्रियते।

तैलोत्पादनेन सह निष्पन्ना सर्षपखल अपि आयस्य अतिरिक्तस्रोतः भवति यां कृषकेभ्यः पशुपालकेभ्यश्च विक्रीयते। आन्तर्जालमाध्यमैः अपि उत्पादस्य विक्रयः क्रियते येन विपण्याः विस्तारः निरन्तरं वर्धते। तैलोत्पादनकाले निष्पन्ना सर्षपखल महिलानां कृते अतिरिक्तायस्य स्रोतः अभवत्। फेडरेशनेन एषा खल कृषकेभ्यः पशुपालकेभ्यश्च प्रति किलोग्रामं पञ्चविंशतितः त्रिंशद्रूप्यकपरिमितमूल्येन विक्रीयते येन आयस्य नवानि अवसराणि सृज्यन्ते।

ऑनलाइन विपणनेन वर्धितः व्यापारः

फेडरेशनस्य सदस्या रीना चौहान उक्तवती यत् समूहेन निर्मितस्य सर्षपतैलस्य विक्रयः अधुना ऑनलाइनमाध्यमैः अपि क्रियते। हिलसम इति जालस्थलस्य माध्यमेन उत्पादः प्रत्यक्षतया उपभोक्तृभ्यः प्राप्यते। एतदतिरिक्तं विकासभवने सर्वकारीयकार्यक्रमेषु विविधेषु सीएलएफ केन्द्रेषु च उत्पादानां प्रचारप्रसारः अपि क्रियते।

तया उक्तं यत् एककस्य जियोमैपिङ्ग प्रक्रिया अपि प्रगतिपथे अस्ति येन भविष्ये उपभोक्तारः प्रत्यक्षतया एककं गत्वा उत्पादान् क्रेतुं शक्नुवन्ति।

रीप परियोजनायाः जनपदपरियोजनाप्रबन्धिका सोनमगुप्ता उक्तवती यत् कालसीस्थितः अयम् एककः ग्रामीणमहिलानाम् आत्मनिर्भरतायाः दिशि उत्कृष्टम् उदाहरणम् अस्ति। तया उक्तं यत् स्थानीयविपण्या ऑनलाइनमञ्चैः विविधसंस्थाभिः च प्राप्तसहयोगस्य कारणेन उत्पादेभ्यः उत्तमः प्रतिसादः प्राप्यते। एषा पहल आत्मनिर्भरउत्तराखण्डस्य महिलासशक्तीकरणस्य च दिशि महत्त्वपूर्णं पदक्षेपं सिद्धा भवति।

________________

Hindusthan Samachar / Dheeraj Maithani