ब्रिक्स मंचे चमत्कृतः उत्तराखंड-आपदाप्रबंधनप्रारूपः
देहरादूनम्, 07 जूनमासः (हि.स.)।प्राकृतिकआपदाभ्यः वर्षाजनितसङ्कटेभ्यश्च अत्यन्तसंवेदनशीलम् उत्तराखण्डराज्यम् आपदाप्रबन्धनक्षेत्रे पुनरेकवारं न केवलं राष्ट्रियस्तरे अपितु अन्ताराष्ट्रियस्तरे अपि स्वस्य सुदृढपरिचयं स्थापितवती। भारतस्य अध्यक्षतायां ओडि
सम्मेलन में मौजूद प्रतिनिधि।


देहरादूनम्, 07 जूनमासः (हि.स.)।प्राकृतिकआपदाभ्यः वर्षाजनितसङ्कटेभ्यश्च अत्यन्तसंवेदनशीलम् उत्तराखण्डराज्यम् आपदाप्रबन्धनक्षेत्रे पुनरेकवारं न केवलं राष्ट्रियस्तरे अपितु अन्ताराष्ट्रियस्तरे अपि स्वस्य सुदृढपरिचयं स्थापितवती। भारतस्य अध्यक्षतायां ओडिशाराज्यस्य पुरीनगरे जूनमासस्य ३ तः ५ दिनाङ्कपर्यन्तम् आयोजितायां ब्रिक्सआपदासंकटन्यूनीकरणकार्यसमूहस्य द्वितीयायां तकनीकीबैठकायाम् उत्तराखण्डस्य आपदाप्रबन्धनप्रतिमानस्य प्रशंसा कृता।

त्रिदिवसीयायाम् अस्याम् महत्त्वपूर्णे उपवेशने ब्राजील, रूस, भारत, चीन, दक्षिणआफ्रिका, मिस्र, इथियोपिया, ईरान, सऊदीअरब, संयुक्तअरबअमीरात तथा इण्डोनेशिया इत्यादिभ्यः एकादशभ्यः ब्रिक्ससदस्यसहभागिदेशेभ्यः वरिष्ठाधिकारिणः, तकनीकीविशेषज्ञाः तथा नीतिनिर्मातारः सम्मिलिताः। बैठकार्थः आपदाजोखिमन्यूनीकरणम्, सुदृढमूलसंरचना, समुदायाधारितपूर्वचेतावनीव्यवस्था, पूर्वानुमानाधारितत्वरितप्रतिक्रियातन्त्रम् तथा आपदाप्रबन्धनार्थं सततवित्तीयव्यवस्थासु अनुभवानाम् आदानप्रदानम् आसीत्।

सम्मेलने विभिन्नदेशैः आपदाप्रबन्धनक्षेत्रे स्वकीयाः नवाचाराः सफलप्रतिमानानि च प्रस्तुतानि। अस्यैव क्रमस्य अन्तर्गतं उत्तराखण्डस्य पक्षतः सेनानायकः एसडीआरएफ अर्पणयदुवंशी तथा यूएलएमएमसी निदेशकः शान्तनुसरकारः राज्यस्य प्रतिनिधित्वम् अकुरुताम्। उभावपि अधिकारिणौ उत्तराखण्डराज्यआपदाप्रबन्धनप्राधिकरणस्य नेतृत्वे विकसितस्य आपदाजोखिमन्यूनीकरणस्य, पूर्वसिद्धतायाः, क्षमताविकासस्य, तकनीकीनवाचारस्य तथा प्रभाविप्रतिक्रियातन्त्रस्य विषये विस्तृतां प्रस्तुतीम् अदत्ताम्।

प्रस्तुतेः समये उत्तराखण्डस्य भौगोलिकजटिलताः, हिमालयीयपरिस्थितयः, भूमिस्खलनम्, अतिवृष्टिः, हिमनदीसरोवराणि, मार्गावरोधाः तथा तीर्थयात्रासम्बद्धाःसंकटाः विस्तारतः निरूपिताः। सहैव राज्ये विकसितायाः बहुसंस्थासमन्वयव्यवस्थायाः, पूर्वचेतावनीतन्त्रस्य तथा त्वरितराहतउद्धारव्यवस्थायाः अपि प्रमुखतया प्रस्तुतीकरणं कृतम्।

विशेषरूपेण सिल्क्यारा सुरङ्गउद्धारअभियानम् तथा धरालीआपदाप्रबन्धनकार्यम् उत्तराखण्डस्य सफलआपदाप्रबन्धनप्रतिमानरूपेण प्रस्तुतम्। सम्मेलने उपस्थितैः प्रतिनिधिभिः एते अभियानौ कठिनभौगोलिकपरिस्थितिषु धैर्यस्य, तकनीक्याः, प्रशासनिकसमन्वयस्य तथा मानवीयसंवेदनशीलतायाः उत्कृष्टोदाहरणरूपेण वर्णितौ।

बैठकायां उत्तराखण्डराज्यआपदाप्रबन्धनप्राधिकरणस्य पूर्वचेतावनीव्यवस्थायाः,संकटन्यूनीकरणोपायानाम् तथा विविधविभागानां मध्ये समन्वयस्य विशेषप्रशंसा कृता। तथा उत्तराखण्डएसडीआरएफ संस्थायाः त्वरिता प्रभावी च प्रतिक्रियाक्षमता चुनौतीपूर्णपरिस्थितिषु उत्कृष्टआपदाप्रतिक्रियाप्रतिमानरूपेण उल्लिखिता।

सेनानायकः एसडीआरएफ अर्पणयदुवंशी उक्तवान् यत् मुख्यमन्त्रिणः पुष्करसिंहधामिनः आपदाप्रबन्धनविषये संवेदनशीलसक्रियदृष्टिकोणस्य कारणात् राज्यसंकटन्यूनीकरणम्, पूर्वसिद्धता, क्षमतानिर्माणम् तथा संस्थानां मध्ये समन्वयः निरन्तरं सुदृढीकृतः भवति। वैज्ञानिकयोजनया, दक्षप्रशासनेन तथा समयबद्धनिर्णयप्रक्रियया आपदानां प्रभावं न्यूनतमं कर्तुं प्रयत्नः क्रियते।

तेन उक्तं यत् उत्तराखण्डसदृशे पर्वतीयराज्ये आपदाप्रबन्धनं केवलं राहतउद्धारकार्याभ्यां सीमितं न भवितुम् अर्हति। अस्य कृते पूर्वसिद्धता, स्थानीयसमुदायानां सहभागिता, प्रशिक्षितबलानाम् उपलब्धता तथा तकनीकाधारितनिगराणीव्यवस्था अत्यावश्यकी अस्ति।

आपदाप्रबन्धनसचिवस्य विनोदकुमारसुमनस्य निर्देशनाधीनाः राज्ये सञ्चाल्यमानाः क्रियाकलापाः अपि प्रतिनिधिभिः सह सामायिकीकृताः। यूएलएमएमसी निदेशकः शान्तनुसरकारः उक्तवान् यत् भूस्थानिकतकनीकी, दूरसंवेदीप्रौद्योगिकी, दत्तांशविश्लेषणम् तथा पूर्वचेतावनीतन्त्रं आपदाजोखिमन्यूनीकरणं अधिकं प्रभावि कुर्वन्ति। भविष्यस्य आपदाचुनौतिभ्यः निवारणे तकनीकाधारितसमाधानानि निर्णायकां भूमिकां निर्वहिष्यन्ति।

सम्मेलनस्य प्रमुखासु उपलब्धिषु ब्रिक्सदेशानां मध्ये आपदासंकटन्यूनीकरणविषये सहयोगस्य सुदृढीकरणम्, तकनीकीनवाचाराणां संवर्धनम्, सामुदायिकस्तरे सिद्धतां सुदृढां कर्तुं साझारणनीतीनां विकासः तथा वैश्विकआपदाप्रबन्धनसहयोगस्य नूतनदिङ्प्रदानं च अन्तर्भूतम्।

Hindusthan Samachar / Dheeraj Maithani