आम-आदमी-दलम् इण्डिया-गठबन्धनस्य भागः नास्ति : संजयसिंह:
नवदेहली, ०८ जूनमास: (हि.स.)।आम-आदमी-दलस्य राज्यसभा-सांसदः संजयसिंह: उक्तवान् यत् इदानीं इण्डियागठबन्धनस्य भागः नास्ति। अद्य प्रचलितायां सभायां च आआपा न सहभागी भविष्यति। राज्यसभा-सदस्यः संजयसिंहः सोमवासरे एकस्मिन् वक्तव्ये इण्डिया-गठबन्धनस्य सभाया:
आम आदमी पार्टी (आआपा) के राज्यसभा सांसद संजय सिंह (फाइल फोटो)।


नवदेहली, ०८ जूनमास: (हि.स.)।आम-आदमी-दलस्य राज्यसभा-सांसदः संजयसिंह: उक्तवान् यत् इदानीं इण्डियागठबन्धनस्य भागः नास्ति। अद्य प्रचलितायां सभायां च आआपा न सहभागी भविष्यति।

राज्यसभा-सदस्यः संजयसिंहः सोमवासरे एकस्मिन् वक्तव्ये इण्डिया-गठबन्धनस्य सभाया: विषये उक्तवान् यत् दलस्य दृष्ट्या पूर्वमेव स्पष्टीकृतम् अस्ति—आआपा इण्डिया-गठबन्धनस्य सदस्यः नास्ति। अतः तस्यां सभायां तस्य सहभागित्वस्य प्रश्नः एव न उदेति।

अस्मिन् सन्दर्भे संजयसिंहः भारतीयराष्ट्रीयकांग्रेस-पक्षं प्रति आलोचनां कृत्वा उक्तवान् यत् तमिलनाडु-राज्ये परिवर्तितेषु राजनैतिक-समिकरणेषु, कांग्रेस-पक्षेण द्रविड़ मुनेत्र कड़गम-दलम् विश्वासे न नीत्वा अभिनेता-विजयस्य दलं तमिलगा वेट्री कझगम समर्थितम् इति कारणात् उभयोः दलयोः मध्ये सम्बन्धाः चिन्तापूर्णाः जाताः।

उल्लेखनीयम् अस्ति यत् संयुक्त-रणनीति-निर्माणाय अद्य इण्डिया गठबन्धनस्य सभा संविधान-कल्ब-इत्यत्र प्रचलति, यस्मिन् विपक्षस्य २३ दलानां नेतारः सहभागिन: भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan